________________
स्तुतिचतुर्विशतिका
१८ श्रीअरजिनस्तुतयः
अथ श्रीअरनाथाय प्रणिपातः
व्यमुञ्चच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं
सन्नमवमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्सन्नमदमरमानसं सारमनेकपराजितामरम् ॥ १॥
-द्विपदी जिनवरेभ्यो वन्दना
स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः
सकलकलाकलापकलिताऽपसदाऽरुणकरमपापदम् । तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलाऽपकलितापमदारुणकरमपापदम् ॥ २॥
-द्विपदी जिनागमाय नमः
भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत्
परमतमोहमानमतनूनमलं घनमघेवते हितम् । जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं
परमतमोहमानमत नूनमलबन्नमघवतेहितम् ॥ ३ ॥ -द्विपदी श्रीचक्रधरायाः स्तुतिः
याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात्
समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि 'चक्रधरा'ऽस्तु सा मुदेऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः॥ ४ ॥१८॥
-द्विपदी
१.वतेऽहिताम्' इत्यपि संभवति । २ 'मूनि' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org