________________
श्रीशोभनमुनीश्वरकृता
१७ श्रीकुन्थुजिनस्तुतयः
।
अथ श्रीकुन्थुनाथाय वन्दनम्
भवतु मम नमः श्री कुन्थुनाथाय तस्मा__ यमितशमितमोहायामितापाय हृद्यः । सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशायमितशमितमोहायामितापायहृद् यः ॥ १॥
—मालिनी ( ८,७) सकलतीर्थपतिभ्यः प्रणतिः--
सकलजिनपतिभ्यः पावनेभ्यो नमः सन्
नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद् गरीयो
नयनरवरदेभ्यः सारवादस्तु तेभ्यः॥२॥-मालिनी सिद्धान्तस्मरणम्
स्मरत विगतमुद्रं जैनचन्द्रं चकासत्--
कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यदानमार्ग धुताथै
कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ ३ ॥ --मालिनी श्रीपुरुषदत्तायै प्रार्थना--
प्रचलदचिररोचिश्वारुगात्रे ! समुद्यत्
सदसिफलकरामेऽभीमहासेऽरिभीते ! । सपदि 'पुरुषदत्ते !' ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेरिभीते ॥४॥१७॥
-मालिनी
१'गतनतिभ्यो देववृन्दाद् वरीयो-' इत्यपि पाटः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org