________________
स्तुतिचतुर्विशतिका
श्रीमहाकालीदेव्या विजया
धृतपविफलाक्षालीघण्टैः करैः कृतबोधित
प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां
प्रजयति महाकाली' माधिपं कजराजिभिः ॥४॥११॥-हरिणी
। १२ श्रीवासुपूज्यजिनस्तुतयः ।
अथ श्रीवासुपूज्यवन्दनम्
पूज्य ! श्री वासुपूज्या 'वृजिन ! जिनपते ! नूतनादित्यकान्ते
ऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो !। आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो ! ॥ १॥
-स्रग्धरा( ७,७,७) जिनराज्य प्रार्थना
पूतो यत्पाद'पांशुः शिरसि सुरततेराचरच्चूणेशोभां
या तापत्राऽसमाना प्रतिमदमवतीहारता राजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस् ते
यातापत्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥२॥-लग्. जिनवाण्या स्वरूपम्
नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा
ऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मे
पापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥३॥- मग्०
१ 'यत्पादपांसुः' इत्यपि पाठः ।
२ 'या तापत्राऽसमानाऽप्रति' इत्यपि पदच्छेदः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org