________________
स्तुतिचविंशतिका
ज्वलनायुधायै विज्ञापना
दिश्यात् तवाशु 'ज्वलनायुधाऽल्प
मध्या सिता के प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठ
मध्यासिताऽकम्प्रवरालकस्य॥४॥९॥-इन्द्र०
१० श्रीशीतलजिनस्तुतयः
अथ श्रीशीतलजिनस्तुतिः
जयति 'शीतल तीर्थकृतः सदा
चलनतामरसं सदलं धनम् । नवकमम्बुरुहां पथि संस्पृशचलनतामरसंसदलङ्घनम् ॥१॥
-द्रुतविलम्बितम् जिनानां स्मरणम्
स्मर जिनान् परिनुन्नजरारंजो
जननतानवतोदयमानतः। परमनिर्वृतिशर्मकृतो यतो
जर्ने ! नतानवतोऽदयमानतः ॥ २॥-तुत. सिद्धान्तस्वरूपम्
जयति कल्पितकल्पतरूपमं
मतमसारतरागमदारिणा। प्रथितमत्र जिनेन मनीषिणा
मतमसा रतरागमदारिणा ॥ ३॥ -द्रुत० १' पृष्ठ- ' इत्यपि संभवति । २ 'जयतु ' इति पाठान्तरम् । ३ ' .लो-' इति पाठान्तरम् । ४ 'जननता.' इस्पपि संभवति।
Jain Education International
For Private & Personal Use Only
For Private & Personal use only
www.jainelibrary.org