________________
स्तुतिचतुर्विशतिका महामानस्याः स्तुति:
दधति ! रविसपत्नं रत्नमाभास्तभास्वन्
नवधनतरवार वा रणारावरीणाम् । गतवति ! विकिरत्यालीं 'महामानसीटा
नव घनतरवारिं वारणारावरीणाम् ॥ ४ ॥ ७ ॥ -मालिनी
Neet-op-out-evel-mp-one-on-ore-are-ok
श्रीचन्द्रप्रभजिनस्तुतयः ।
अथ चन्द्रमभप्रभवे प्रणाम:
तुभ्यं 'चन्द्रप्रभ !' जिन ! नमस्तामसोज्जृम्भितानां
हाने कान्तानलसम ! दयावन् ! दितायासमान ! । विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान ! ॥१॥
-मन्दाक्रान्ता ( ४, ६, ७) जिनेश्वराणां नुति:
जीयाद् राजी जनितजननज्यानिहानिर्जिनानां
सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् । भव्योवृत्या भुवि कृतवती याऽवहद् धर्मचक्र
___ सत्यागा रञ्जयदमितरुक् सौ रविं दावतारम् ॥ २ ॥ --मन्दा० सिद्धान्तस्तुति:
सिद्धान्तः स्तादहितहतयेऽख्यापयद् यं जिनेन्द्रः
सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैयं च मोदाद् विहाय:
सद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥३॥-मन्दा० १' राजिः' इत्यपि पाठः । २ ' सारविन्दा बतारम् ' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org