________________ स्तुतिचतुर्विशतिका वज्रशङ्कलायै प्रणाम: शृङ्खलभृत् कनकनिभा __ या तामसमानमानमानवमहिताम् / श्री'वज्रशृङ्खलां' कज यातामसमानमानमानवमहिताम् // 4 // 3 // -आर्या. - 4 श्रीअभिनन्दनजिनस्तुतयः / अथ अभिनन्दनस्य प्रार्थना त्वमशुभान्यभिनन्दन'! नन्दिता सुरवधूनयनः परमोदरः। स्मरकरीन्द्रविदारणकेसरिन् ! सुरव ! धूनय नः परमोऽदरः // 1 // --द्रुतविलम्बितम् समग्रजिनेश्वराणामभ्यर्थना जिनवराः ! प्रयतध्वमितामया मम तमोहरणाय महारिणः / प्रदधतो भुवि विश्वजनीनता ममतमोहरणा यमहारिणः // 2 // -द्रुत० आगमस्तुतिः असुमतां मतिजात्यहिताय यो जिनवरागम ! नो भवमायतम् / प्रलघुतां नय निर्मथितोडता जिनवरागमनोभवमाय ! तम् // 3 // --द्रुत. 1 ०मायतम्' इत्यपि संभवति / Jain Education International For Private & Personal Use Only www.jainelibrary.org