________________ श्रीशोभनमुनीश्वरकृता मानसीदेव्याः प्रार्थना सितशकुनिगताऽऽशु मानसीडा ऽऽत्तततिमिरम्मदोसुराजिताशम्। वितरतु दधती पविं क्षतोद्यत् तततिमिरं मदभासुराजिता शम् // 4 // 2 // --पुष्पि० 13 श्रीशम्भवजिनस्तुतयः अथ श्रीशम्भवस्याभ्यर्थना निर्मिन्नशत्रुभवभय ! शं भवकान्तारतार ! तार ! ममारम् / वितर त्रातजगत्रय ! 'शम्भव ! कान्तारतारतारममारम् // 1 // -आर्यागीतिः जिनवराणामाश्रयालक्ष्मी आश्रयतु तव प्रणतं विभया परमा रमाऽरमानमदमरैः / स्तुत ! रहित ! जिनकदम्बक ! विभयापरमार ! मारमानमदमरैः // 2 // --आर्या० जिनमतस्य प्राधान्यम् जिनराज्या रचितं स्ता दसमाननयानया नयायत'मानम् / शिवशर्मणे मतं दध दसमाननयानयानया यतमानम् // 3 // - आर्या० १०भा सुरा०' इत्यपि पदच्छेदः / २०भासुराऽजिता' इत्यपि संभवति 3 'नयाऽऽयतमानम्' इत्यपि 4 'नयायतमानम' इत्यपि Jain Education International For Private & Personal Use Only www.jainelibrary.org