________________ नमः परमात्मने। सुविहितपुरन्दरश्रीशोभनमुनिवर्यविहिता // स्तुतिचतुर्विशतिका // 1 श्रीऋषभजिनस्तुतयः अथ श्रीनाभिनन्दननुतिः भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली रम्भासामज ! 'नाभिनन्दन ! महानष्टापदाभासुरैः। भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः // 1 // -शार्दूलविक्रीडितम् ( 12,7 ) समस्तजिनवराणां स्तुतिः ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो __दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः / यत्पादौ च सुरोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बरा दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः // 2 // -शार्दूल• जिनप्रवचनमशंसा शान्ति वस्तनुतान् मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै रक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् / तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली__ रक्षोभन्ननहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कतम्॥३॥-शार्दूल. Jain Education International For Private & Personal Use Only www.jainelibrary.org