________________ 130 स्तुतिचतुर्विशतिकायाः [श्रीशोमनश्रीपार्श्वनाथस्तोत्रस्य प्रारम्भिकं काव्यं यथा" भक्तिव्यक्तिपणमदमरस्वर्णकोटीरकोटी प्रेङ्खज्ज्योतिः प्रचलदचिरः कज्जलश्यामलद्युत् / श्रेयोवल्लीरुपचयमयः प्रापयंस्तापहर्ता भूयात् पार्श्वः शमितदुरितोऽम्भोदवन्मोदकर्ता // 1 // " श्रीमहावीरस्तुतौ प्रथमं पद्यमेवम्" विद्यानां जन्मकन्दस्त्रिभुवनभवनालोकनप्रत्यलोऽपि प्राप्तो दाक्षिण्यसिन्धुः पितृवचनवशात् सोत्सवं लेखशालाम् / जैनेन्द्रीं शब्दविद्या पुरत उपदिशन् स्वामिनो देवतानां ___ शब्दब्रह्मण्यमोघं स दिशतु भगवान् कौशलं त्रैशलेयः // 1 // " (पृ. 25, 5 अ) कविवरनामगर्भितमष्टभाषामयं षडरचक्रबन्धनिबद्धं २४पद्यात्मकं श्री सीमन्धरस्तवनं व्यरचि श्रीजिनहर्षसरिभिः / अस्यान्त्यं पद्यमित्थम् ---- "श्रीसीमन्धरतीर्थनाथमनिशं भाषाष्टकस्पष्टया ___ भक्त्येति त्रिजगत्समीहितकरं यः स्तौति भव्याङ्गभाग् / स श्रीमान् गुरुसोमसुन्दरपदमौदिप्रभावोदयं नित्यानन्दसखीं वृणोति विमला जैनेश्वरी सम्पदम् // 24 // " Jain Education International For Private & Personal Use Only www.jainelibrary.org