________________
मुनिराजकृतायाः ]
भूमिका
१२५
आमाश्च
कुत्सनतमम् । ‘प्रकृष्टे तमप् ' ( सिद्ध० ७ - ३-५ ) इति तमप्प्रत्ययः । ततो दूरापास्तं समस्तं कुत्सनतमं येन याभ्यां यैर्वास तौ ते दूरापास्तसमस्तकुत्सनतमाः । ' वीता०' विशेषेण इतं वीतम् । द्वित्वे पुनः ' ईङ्च् गतौ' (सिद्ध० घा० ) इत्यस्मात् क्ते ईतं अन्तर्गतं रजः - बध्यमानकर्म रूपं अन्तारजः । अत्र ' रो रे लुग्दीर्घश्चादिदुतः ' ( सिद्ध ० १ - ३ - ४१ ) इति लुकि माग्दीर्घत्वे च सिद्धिः । ततो वीतं ईतं वाऽखिलम् - अशेषमन्तारजोऽन्तारजं वा यतः स तौ ते । रजशब्दः स्वरान्तोऽपि ( है ) लिङ्गानुशासन ( नपुं० श्लो० १ )वृत्तौ । ' वामो० वामानि - प्रतिकूलानि अ- रोगाः तेषामुल्लासः - प्रादुर्भावस्तस्य विनाशात् शोभनं महः प्रभावो यस्य ययोर्येषां वा स तौ ते । मह इति सकारान्तः स्वरान्तश्च तुल्यार्थोऽनेकार्थे । (हैमे श्लो० ६०४) । 'वृद्धय०' वृद्धया ऋदया वा अग्रिमं प्रधानं ओकं ओको वा--समवसरणादिस्थानं यस्य ययोर्येषां स तौ ते । ओकः सका रान्तः स्वरान्तश्च । वरं-परिणामसुन्दरम्, अरं - शीघ्रम् | 'स्फूर्ज ०' स्फूर्जन्त्यः समन्ततः प्रसरन्त्यो मास भावा- देहद्युतयो यस्य ययोर्येषां स तौ ते । भाः सकारान्तः स्वरान्तश्च । 'वृषभा० ' वृषभः ऋषभौ वा परस्परपर्यायः तस्येवाभिरामो नयो-यानं यस्य ययोर्येषां स तौ ते । निर्दग्धानि अशुभान्येव एधांसि-इन्धनानि येन सः, द्वित्व- बहुत्वयोस्तु निर्दग्धाऽशुभैधा येन याम्यां यैः स तौ ते । ततो वृषभाभिरामनयश्चासौ निर्दग्धाशुभैधाश्वेत्यादि त्रिधाऽपि कर्मधारयः । एधः सान्तः स्वरान्तोऽपि | बळं-बलिष्ठम् । अत्र 'गाङ् गतौ' (सिद्ध०धा० ) अस्मात् पञ्चमी तां आतां अन्तां वचनत्रयं देयम् । सिद्धिः प्राग्वत् । एकः उभौ - द्वौ एवं समे- सर्वे | जिनवृषा इति जिना : - केवलिनस्तेषु तृषा इति प्राग्वत् । 'वृधूङ वृद्धौ' (सिद्ध० घा० ) इत्यस्मात् क्ते । एवं ' ऋच् वृद्धौ ' (सिद्ध० धा० ) इत्यनेन ऋद्धं - समृद्धमित्यर्थः । प्रसादं - वाञ्छितार्थप्रापणलक्षणम् । सदा । " मैसजसततगाः शार्दूलविक्रीडितं वैर्यतिः” । अष्टदलकमलबन्धः ॥ २ ॥
1
1
सम्प्राप्तब्रह्मसीमा बत नु सुमुखमावर्यमाऽद्वैतधामा वीक्षातीतप्तहेमा विततदुरितहा वृष्टवामा वितारम् । एको द्वौ वाऽपि सर्वे प्रतिदिनमरिहा वाञ्छित श्रेयसे द्राक् प्रत्ताप्तश्रीललामा वरमिह भविनामीशतान्नम्रकाणाम् ॥३॥ -- स्रग्धरा०
,
'सम्प्राप्त०' सम्प्राप्ता ब्रह्मणि- परमपदे ज्ञाने वा सीमा येन याभ्यां यैः स तौ ते । सीमा(शब्दो) नान्तः स्वरान्तोऽपि । ' वत ० ' बत नु इत्यव्ययद्वयं आश्चर्य-वितर्कयोः पूरणार्थे वा । ततः शोभनो मुखमेव मा:- चन्द्रो यस्य सः । अत्र मास्शब्दः सकारान्तः । द्वित्वबहुत्वे तु अतनुः - अनहपा शोभना चमा-लक्ष्मीर्ययोर्येषां तौ ते । ' वर्य ० ' - प्रधाना मा-श्रीर्यस्य स वर्यमः
वर्या-प्र
1
१" सौ सौ तौ गः शार्दूलविक्रीडितं है: ( है ? ) " इति छन्दो ० अष्टमे पत्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org