________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमन स्रस्ताशर्मा । द्विवचन-बहुवचनयोस्तु 'अर्तीरिस्तुसुहुसघुक्षियतिभावाव्याधापायावलिशूपदिनीभ्यो मः' (हैमे भू. ३३८ ) इत्युणादिसूत्रेण मप्रत्ययान्तत्वात स्वरान्तः शर्मशब्दः । ततोद्विवचने सस्ताशौ । पुरस्तात् ऋतशब्दः । 'ओदौतोऽवा । (सिद्ध० १-२-२४) इति आवादेशश्वः । बहुवचने सस्ताशमाः पुरस्तात् तृतशब्दः । 'अवर्णभोभगोऽघोलुगसन्धिः' (सिद्ध० १-३-२२ ) इति रलोपः । वृतः-स्वीकृतः सुष्ठु महिमा येन सः । द्वित्वे तु 'कं पापणे च ' (सिद्ध० धा० ) इति वचनात् ऋता-प्राप्ता शोभना महिमा याभ्यां तो ऋतसुमहिमौ । 'गोश्चान्ते हस्खोऽनंशिसमासेयोबहुव्रीहौ' (सिद्ध०२-४-९६) बहुत्वे तु वृता सुमहिमा यैस्ते । एकत्वे महिमनशब्दस्ताद्धितिक इमन्प्रत्ययान्तः । द्वित्वबहुत्वयोस्तु महिमाशब्दः स्वरान्तः । दृश्यते च “ वनभवनमदम्भोवाहि(ह)संवाहि(त)श्रीमहिममहिमभानो नवः किं दहन्ति " इत्यादिषु । ( ३४९तम )उणादिसूत्रेण इमः। 'मह पूजायाम् । (सिद्ध० धा० ) इति धातोः । ‘वीरित०' विशेषेण ईरितो वीरितः वीरित ईरितो वा स्वान्तजन्मा-स्वान्तजन्मो वा-मनोभूः येन याभ्यां यैर्वा स तो ते ॥ तथा जन्मशब्दो नकारान्तः प्रतीतः, हैमनाममाला( का० ६, श्लो० ३)वृत्तौ त्वकारान्तोऽपि 'बाधा. ' बामा-पीडा द्वित्वे तु आधा-अनल्पविकल्पास्ता एव दुस्तरत्वात् सिन्धवो-महानद्यः तासां प्रतरणे सहा-सामर्थ्य यस्य ययोर्येषां वा स तो ते तथा । एकत्वे सह इति सकारातः । द्वित्वबहुत्वे स्वरान्तोऽनेकार्थः । वासना-भावना तया तस्यां वाऽवस्थिताना, द्वित्वे पुनरासनेषुध्याननिबन्धनेष्यवस्थितानाम् । अप्येको द्वौ किमुत बहवो वा इति व्यक्ताथम् । अपि-किमुवाशब्दाः समुच्चये विकल्पे वा । अनिशं-निरन्तरं ध्येयभावं-ध्यातव्यतो गाते 'गाङ्गतौ' (सिद्ध०धा०) वर्तमाना ते आते अन्ते' (सिद्ध०३-३-६), अनतोऽन्तोऽदात्मने' (सिद्ध०४-२-११४) अन्ते नकारलोपे 'समानानां तेन दीर्घः। (सिद्ध०१-२-१) इति दीर्घः। येषां-भव्याङ्गिनांकः कौ के । जिनवरषा इति। जिनवरेषु-केवलिषु वृषा-इन्द्रः । द्वित्वबहुत्वे तु वृषः स्वरान्तः प्रधानश्चानेकार्थे (हैमे श्लो० ५५९) । इदं विशेष्यं, शेषाणि विशेषणानि । वृद्धये-ऋद्धये सुकृतधनादिकं तेषां किंन स्यात् । अपि तु स्यादेव । मन्दाक्रान्ताच्छन्दः । “मभनतता गौ घचैयतिः" इति ॥१॥
दूरापास्तसमस्तकुत्सनतमा वीताखिलान्तारजा, __ वामोल्लासविनाशशोभनमहा वृद्धथग्रिमोकावरम् । स्फूर्जडा वृषभाभिरामनयनिर्दग्धाशुभैधा बलं
मातामेक उभौ समे जिनवृषा वृद्ध प्रसादं सदा ॥२॥-बार्दूल. 'दूत कुत्स्यो -निन्यते जन्तुरमेनेति कुत्सनं, कुत्सनं च तत् तमध-मानं कुत्सना, दूरेणापरसं-प्रतिक्षितं समस्य-सपत्रं कुत्सनत्यो येन स दूरा० । द्विस्वपहुखे तु प्रकटं कुन्सचं
१ "मो मे तो मो मन्दाम पञ्चैः ॥ इति छन्दोऽनुसासमेऽष्टमे पत्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org