________________
१२०
स्तुतिचतुर्विशतिकायाः " सरति सरति चेतः स्तोतुमेतन्मदीयं ____ महितमहितन्दैरप्यदस्त्वचरित्रम् ।
रमपरमबुद्धिस्फूर्तयो मादृशाः किं
__ विदुरविदुरधुर्यास्तात ! तत् ते स्वरूपम् ? ॥ १॥" (पृ. ७, ५ आ) श्रीसोमप्रभाचार्यकृतं श्रीजिनस्तवनं दशपद्यमितं यस्याचं पद्यमेवम्
" व्यधित साधितसाधुतपाः कृपां, शमघनामघनाशकरी च यः।
तमविरामविराद्धमनोभवं, जिनममानममानगुणं स्तुवे ॥१॥" (पृ.७,५ ई) श्री आह्लादमन्त्रिकृतं श्रीपार्श्वनाथस्तोत्रंदशपद्यात्मकं ब्यक्षरयमकमाणपतंच वर्तते । तत्र प्रारम्भे पद्यं यथा--
" श्रीपार्श्वनाथ ! भवतो भवतोयराशि-कुम्भोद्भवस्य चरितं किमु धर्णयामि ।
यैः शङ्करप्रभृतयो भृतयोगमुद्रा, दोधूयिताः कुविषयैर्भुवि तज्जिगीषोः॥१॥" (पृ. ९, १३ अ) प्रत्येकपद्यस्य चतुर्थचरणे व्यक्षरपुनराशत्तियमकमण्डितं २५पनात्मकं चतुर्विंशतिजिनस्तवनं द्रुतविलम्बितच्छन्दसि गुम्फितं श्रीसोमसुन्दरसूरिभिर्यस्य प्रारम्भिक काव्यं यथा____ " सकलनाकिनिकायनमस्कृत-क्रमयुगं जिनपुङ्गवमादिमम् ।
स्मरत नाभिनरेन्द्रसुतं सता-ममितकामितकामघटोपमम् ॥ १॥" एभिर्मुनिवरैर्विरचिता नन्दीश्वर-पुण्डरीक-गौतम-सर्वसिद्ध-सिद्धचक्र-सीमन्धरादिस्तुवयोऽप्येवंविधा एव । (पृ. ९, १४ अ) श्रीसोमप्रभसूरिकृते नवपद्यात्मके सर्वजिनस्तवे प्रथमं पद्यं यथा
" जिनपत ! द्रुतमिन्द्रियविप्लवं, दमवतामवतायवतारणम् ।
वितनुषे भववारिधितोऽन्वहं, सकलया कलया कलया कया ॥१॥" (पृ. ९, १६ अ) श्रीमहावीरस्तवः १४पद्यात्मकः प्रतिपदमक्षरत्रयपुनरावृत्तियमकमण्डितो विद्यते । तस्य प्रथमं काव्यं यथा
" कलशकलशरादिमोल्लसल्लक्षणोकः
पदमऽपदमध्यानां भव्यपद्माऽवबोधे । मिहरमिह रयेण स्तौमि चामीकरश्री
वसुमऽवसुमतीत्थं वर्धमान ! प्रभो ! त्वाम् ॥ १॥" (पृ. ९. १६ आ) श्रीआदिजिनस्तवाष्टकं पद्यनवकमितमेतद्यमकसमलङ्कतं निम्नलिखिताद्यपद्यात्मकं वर्तते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org