SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सुनिराजकृतायाः ] भूमिका अनुसन्धानरूपा पूर्तिः पूज्यपादश्रीमत् कान्तिविजय सरकस्तोत्रसङ्ग्रहस्य हस्तलिखितप्रतिरूपं सम्प्रति सम्प्राप्तं साधनं प्राय उपजीव्य क्रियते भूमिकाया मया हीरालालनामधेयेन पूर्तिरियमनुसन्धानद्वारेण । (पृ. २,१ अ ) श्रीधर्मघोषसूरिकृता यमकस्तुतयः ३९पद्यमया यासामाद्यं पद्यं यथा" जिनं यशः प्रतापास्त – पुष्पदन्तं समं ततः । संस्तुवे यत्क्रमौ मोहं, पुष्पदं तं समन्ततः ॥ १ ॥ " (पृ. २, १ आ ) श्रीजिन सुन्दर सूरिमूत्रितं समचरणसाम्यसमलङ्कृतं २९पद्यात्मकं चतुर्विंशतिजिनस्तोत्रं स्तोत्रसमुच्चये मुद्राप्यमाणं समस्ति यस्याद्यं काव्यमिदम् — “ श्रीजिनर्षभ ! भवन्तमाश्रितो देव ! भव्यनयनाभिनन्दन ! | भूरिवैभवभरो भवी भवे-देव भव्यनय ! नाभिनन्दन ! ॥ १ ॥ " (पृ. ५, १३ अ ) सहस्रावधानिश्रीमुनिसुन्दरसूरिसूत्रिता पञ्चतीर्थङ्कग्रस्तुतिर्नवपयममेया समचरणसाम्यरूपयमकयमिता यस्याः प्रारम्भिकं पद्यं यथा ११९ 44 'जय श्रीऋषभ ! श्रेयः, सुखानि समयाकर ! | देहि मे भद्ररत्नौघ !, सुखानि समयाकर ॥ १ ॥ " (पृ. ६, १ अ ) श्रीचारित्रसुन्दरमुनिवरविरचितः २१पद्यात्मक आदिनाथस्तवो fierममयः । अस्य प्रथमं पद्यं यथा 66 ( पृ. ७, ५ अ ) अस्य प्रारम्भो यथा - 'आदीश्वरं स्वतिशयालिविराजमानं तीर्थङ्करं तनुविभाऽस्तविराजमानम् । भक्तया प्रयुक्तयमकैर्नृपनाभिभूतं स्तोष्ये त्रिधा न विलसन्मदनाभिभूतम् ॥ १ ॥ सर्वजिनसाधारणस्तव एकादशपद्यमयः प्रतिपादमेवंविधयमकविभूषितः । Jain Education International १ अनेन अनुसन्धेयस्य पृष्ठस्य स्थानस्य च सूचनं क्रियते । अग्रेऽपि सुधीभिः संयोजनैवं स्मरणीया । २ द्वितीयात् सप्तमपर्यन्तेषु पयेषु चरणसाम्यता यदङ्को यथा - १, २,१, ३,१, ४,२,३,२, ४,३,४ । अष्टमे पये चरणचतुष्कतुल्यता, नवमे, दशमे एकादशे च चरणसमानतेत्थम् - ( १,४,२,३ ), ( १, २,३,४ ), ( १,३,२,४ ) । द्वादशत्रयोदशे पद्ये श्लोकपुनरावृत्तिरूप महायमकमण्डिते । आयपद्यमिव पयं चतुर्दशं यमकमाश्रित्य । प्रतिपादं प्रारम्भे वर्णचतुष्टयसमानता पञ्चदशे षोडशे चान्ते । त्र्यक्षरपुनरावृत्तिगर्भितं प्रत्येकं चरणं सप्तदशे । अष्टादशे आय चरणयोरन्ते अन्त्य चरणयोश्च प्रारम्भे वर्णसाम्यम् । शृङ्खलाबद्धं एकोनविंशतितमं पद्यम् । सप्तदशसदृशं विंशतितमं पद्यं यमकं लक्षीकृत्य । अन्तिमे एकविंशतितमे पद्ये कविनामनिर्देश: । ३ गरुडदर्पम् । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy