________________
८ आ
जीवनदिग्दर्शनम् विदित्वा संसारासक्ताः श्वशुराद्याः पुनः नानोपसर्गर्भवन्तं चिक्तिशुः, परन्तु पूर्वीणपुण्यप्रतापेन पूज्यपितृप्रयत्नेन च शान्तिं गतास्ते । चातुर्मासे पूर्ण परलोकं जग्मुगुरवः श्रीझवेरसागरा येभ्यो विशिष्टविद्याग्रहणे उन्मनसो भवन्त आसन् ।
लघुवयसि गुरुविरहवेदनाव्याकुलाः श्रीमन्तः१९४८ तमे वर्षे पावनीचक्रुः स्वागमनेन राजनगरम्, ततः प्रायःप्रतिवर्ष विजयुः ग्रामानुग्रामम् । भवन्तः पवित्रयामासुः१९४९तमे उदयपुरं,१९५०तमे पालीनगरं, १९५१ तमे सोजतपुरं, १९५२तमे पेटलादं, १९५३तमे छाणी, १९५४तमे स्तम्भन. तीर्थ, १९५५तमे साणंदं च । व्याकरणतर्कन्यायशास्त्राध्ययनानुकूल्यार्थमाजग्मुः १९५६तमे वर्षे राजनगरे यत्र वर्षत्रितयं व्यतीतवन्तस्तत्रभवन्तःश्रीआनन्दसागराः। ततो भावनगरे चातुर्मासं कृत्वा पुनरागतवन्तो राजनगरे भवन्तो यत्र भगवतीयोगवहनपूर्विको पंन्यासपदवीं लेभिरे १९६० तमे वर्षे आषाढशुक्लदशम्यां पंन्यासश्रीनेमिविजयसकाशात् । वर्षान्ते स्वजन्मभूमि भूषयामासुः। ततः १९६२तमेऽब्दे भावनगरं, १९६३तमे सूर्यपुरं, १९६४तमे मुम्बापुरीं च महन्महःपूर्व पवित्रयामासुः। अस्यां मोहमयीनगर्या भवत्सदुपदेशेन स्वर्गस्थगुलाबचन्द्र देवचन्द्रेत्यभिधस्य महाशयस्य सम्मत्या संस्थापिता श्रेष्ठिदेवचन्द्र-लालभाइ-जैनपुस्तकोद्धार-संस्था एतत्कीर्यवाहकचतुष्टयेन यया लक्षरूप्यकात्मकस्य मूलधनस्य वृद्धिव्ययेन प्रसिद्धिमानीता अनेके ग्रन्था मनीषिमनोमयूरं नर्तयन्ति। चातुर्मासे पूर्णतां गते 'अन्तरिक्ष'तीर्थवन्दनाय जग्मुर्भवन्तः स्वशिष्यसमुदायसमेतास्तत्तीर्थगन्तसङ्घसार्धम् । ततः १९६५तमेऽब्दे प्रयाणं चक्रुः येवला प्रति । ततः १९६६तमे वर्षे पुनर्मण्डयामासुर्निजागमनेन मूर्यपुरंपंन्यासा इमे यत्रोपधानादिक्रिया कारिता। १९६८ तमाब्दीयं चातुर्मासं जातं स्तम्भनतीर्थे, ततश्चलिता इमे उपस्थितबुद्धयः छाणीग्रामं यत्र निजसंसारिकबन्धुःश्रीमणिविजयमुनिः पंन्यासपदवी प्रापितः पं.श्रीसिद्धिविजय(श्रीविजयसिद्धिमूरि )द्वारा । १९७० तमेऽब्दे पत्तननगरं प्रापुर्भवन्तो यत्र न केवलं प्राचीनागमप्रकाशने कटिवद्धा अभूवन् वेणीचंदसूरचंदेत्यभिधस्य श्रेष्ठिनो विज्ञप्त्यात्मकया प्रेरणया, किन्तु संस्थापयामासुःश्रीआगमोदयसमिति 'भोयणी'ग्रामे यद्वृत्तान्तलेशोऽवगम्यते आमुख( Foreword )तः । अपरश्च एभिरागमकामधेनुदोग्धृभिः अनेकाः साधुसाध्व्य उपकृता आगमवाचनया यत्प्रभावेण भवद्भ्य आगमोद्धारकेति पदवीं मुदा ददुः सर्वेऽपि सार्वा जनाः। द्वितीया आगमवाचना कर्पटवाणिज्येऽजनि, तृतीया तु राजनगरे १९७२तमाब्दीये चातुर्मासे चतुर्थी पञ्चमी च सूर्यपुरे । अस्मिन् मदीये जन्मनगरे गुलावभाइ बालुभाइ नाम्ना नगरप्रेष्ठिनाऽलङ्कृताया सभायां श्रीमन्मुक्तिविजयगणिवरविनेयरत्नबालब्रह्मचारिश्रीमद्विजयकमलमूरीशैः १९७४तमेऽब्दे वैशाख शुक्लदशम्यां विभूषिता भवन्त आचार्यपदवीप्रदानेन विविधनगरनगरीपतिष्ठितगृहस्थच्छात्रानुमोदनपूर्वकम् ।
१ १९६४ तमेऽब्दे विभूषिता इमे सूरिपदप्रदानेन । २ एतेषां नामधेयानि यथा-(अ) नगीनभाइ घेलामाइ, (आ) केसरीचद रूपचंद, (इ) वीजकोर( देवयन्द्रम्य सुपुत्री), (ई) जीवनचंद साकरचंद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org