SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन ग्रन्यनाम ग्रन्थमामम् स्थलम् रचनासमय: भाषा १७ आनन्दमन्दिररासकः (मु०) ७६०० राजधन्यपुरम् १७४९-१७७० गूर्जरी १८ द्वादशव्रतग्रहणरासका १७५० गूर्जरी १९ रोहिणीअशोकचन्द्ररासकः (मु०) २००० सैयदपरु (सूर्यपुरे) १७५० २० शब्दभेदनाममालावृत्तिः ३८०० १७५४ संस्कृता २१ दीपालिकाकल्पबालावबोधः १२०० राजनगरम् १७६३ (अहमदाबाद) २२ अध्यात्मकल्पद्रुमबालावबोधः ८००० १७७० २३ पाक्षिकसूत्रबालावबोधः (मु०) ५५०० राजधन्यपुरम् १७७३ अपरश्च भाष्यत्रयबालावबोध-योगदृष्टिस्वाध्याय-जिनवरस्तवन-पद-कलशादयोऽपि ग्रन्था जग्रन्थिरे एभिः सूरिशेखरैः। एतेषां जन्म-दीक्षाऽऽदिवृत्तान्तो यथा भिन्नमालीयवीसाओसवालज्ञातीयश्रीवासवश्रेष्ठिपत्नी कनकावती १६९४तमे वैक्रमीयाब्दे पुत्ररत्नमसुष्वत् । पितृभ्यामस्य नथुमल्लेति नामाकारि । तेन १७०२तमे हायने श्रीधीरविमलगणिसकाशे मुक्तिदूतिका दीक्षा जगृहे । तदा नयविमलेति नामनिष्पत्तिः । १७४८तमे वर्षे अणहिल्लपट्टणसमीपस्य सण्डेरग्रामे सूरिपदं प्रापि विजयप्रभसूरिसकाशात् । तदा ज्ञानविमलेति नाम निरधारि । एतत्सरिवर्यकृततीर्थमालातोऽवसीयते यदुत १७५५तमे वर्षे तैः विविधतीर्थयात्राऽकारि । सूर्यपुरात् निर्गत्य रानेर-भरुच-गन्धार-कावीप्रमुखाणि गूर्जरीय-तीर्थानि वन्दित्वा मारवाडस्थनानातीर्थानि प्रणम्य सिद्धपुर-महेसाणा-राजनगर( अमदावाद )द्वारा पुनः सूर्यपुरे आगमि षण्मासान्ते । १७७७तमेऽन्दे इमैः प्रोत्साहिताः श्रीसिद्धाचलयात्रार्थ सङ्घपूर्वकगमनाय सूर्यपुरनिवासिप्रेमजीपारेखेतिश्रेष्ठिवर्याः । - एतद्वर्णनं रासकरूपेणाकारि कविश्रीदीपसागरशिष्यश्रीसुखसागरैः स्वकृतौ प्रेमविलासाभिधायाम् । एतेषामनेकभव्यप्रतिबोधकानां विविधग्रन्थगुम्फितॄणां जिनप्रतिमाप्रतिष्ठाकारिणां देहोत्सर्गः समजनि वैक्रमीये १७८२तमे आश्विनकृष्णचतु• गुरुवासरे । स्तम्भनतीर्थवासिश्रावकैः एतत्पादुकायुक्तः स्तूपो निमार्पितो भवदर्शनार्थम् । श्रीमता ज्ञानभाण्डागारो विद्यतेऽधुना अस्मिन् नगरे खारगेटेति नाम्ना प्रसिद्ध उपाश्रये ( विलोक्यतां सिरिनर०मालायाः प्रस्तावना)। १ चिन्त्योऽयमुल्लेखः, अवलोक्यता ८६तमं पृष्ठम् । २ मुद्रितोऽयं ग्रन्थः। ३ एमिः प्रथमादर्शोऽलेखि सूरिवर्यकृतभूयिष्ठग्रन्थानाम् । ___४ प्रेक्ष्यतां श्रीमदबुद्धिसागरसूरिकृतस्य जैनधातुप्रतिमालेखसङ्ग्रहस्य प्रथमे विभागे लेखाङ्कः ६९९तमः ७०९तमश्च दितीये तु ५६६, ५६७, ५६९, ५७०, ६५७ इति सङ्ख्यात्मकाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy