SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ઢ स्तुतिचतुर्विंशतिकायाः श्रीविजयप्रभसूरी-श्वरगुरुचरणप्रसादतो भव्याः । एतच्छ्रवणानुभावाद्, भवन्तु सन्मङ्गलालीनाः ॥ ९॥ एतद्वाचनलिखन - श्रवणात् पुण्यं समर्जयन्तु जनाः । आचाम्लादितपःकरणादधिकं च तद्भक्त्या ॥ १० ॥ Jain Education International - आर्या - आर्या - सद्भिरहं नो हास्यो, दृष्ट्वा रचनां विसंस्थुलामस्य । उद्योगः कर्तव्यः, सगुणकथने वदन्ति ते एव ॥ ११ ॥ " - गीतिः अनेनावगम्यते यदुत इमे श्रीज्ञानविमलसूरयः प्रस्तुतश्री सौभाग्यसागरसूरीणां गुरवः । किञ्च इमे विद्यार्थिनः कविश्री अमृतविमल - मेरुविमलयेोरिति ज्ञायते ' वराही नगरे १७३९तमेऽब्दे एभिः श्रीयुतहेमराजादिप्रार्थनया विरचितस्य पञ्चशतक श्लोकप्रमाणकस्य नवतत्त्ववार्तिकस्य निम्नलिखितप्रशस्तितः -- """ “ श्रीविजप्रभसूरी - श्वरराज्ये विजयरत्न साम्राज्ये | श्री जिन मतततसुमनः- पथप्रभातैकतपनाभे ॥ १ ॥ - आर्या तद्गच्छसुविहितत्रति - गुणमणिमाणिक्यविनयविमल कविः । संयमधुरधुरीण - स्तच्छिष्यो धीरविमलकविः ॥ २ ॥ तच्छिष्यो नयविमलो, लिलेख ' नवतत्त्ववार्तिकं ' सम्यक् । कवि अमृतमिळ-मेरु-विमलाभिधयोश्व विद्यार्थी ॥ ३ ॥ —,, यत्र सूत्रार्थसङ्ख्या, अनुष्टुभां पञ्चशतकामह जातम् । प्राकृतभाषाबद्धं, सुगमं हृदयङ्गमं लोके ॥ ४ ॥ सज्जनकविभिः शोध्यं धार्यं हृदयेऽपि हर्षमाधाय । बालविलासोदितमिव, जनकै राइ लादतस्तद्वत् ॥ ५ ॥ निधिगुणमुनीन्दु ( १७३९ ) माने, वर्षे हर्षेण 'वराही' नगरे | श्रीधर्मनाथ जिनपति - प्रसादतः सफलमिदमाप्तम् || ६ ॥ -,, एतद्वाचनपुण्य-प्रभावतः शुद्धधर्मतत्त्वज्ञः । 19 " भवतु सदा नयविनय - प्रसक्तिनिपुणः सुदृग् लोके ॥ ७ ॥ —,, For Private & Personal Use Only "" श्रीशोभन शिष्यप्रतिमश्रावक - आंषड संज्ञाक हेमराजस्य । मणिहारमाणजीकस्य, चाभ्यर्थनया कृतो यत्नः ॥ ८ ॥११ –,, एतेषां गुरुपरम्पराऽवबोधायं विलोक्यतां निम्नलिखिता प्रशस्तिः निजकृति श्रीचंद्रकेवलि - रासकस्य आनन्दमन्दिरेत्यपराभिधस्य -- www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy