SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन" श्रीमत्तपागच्छसुधीवितन्द्रः, श्रीहरिविजयाभिधमरिचन्द्रः। यदुक्तिमाकर्ण्य दयार्द्रचेता, बभूव साहिश्रीअकबराख्यः ॥ १ ॥ जेजीयाख्यकरो व्यमोचनयतं स्वाज्ञां चिरं ग्राहिता___ऽनेके निवृतयो क्षतं च गुरु संशत्रुञ्जयाख्यं परम् । येन द्वादश वासराश्च विहिताः सत्त्वाभयोत्सर्जनात शुद्धाशुद्धगुणैरनेकविहितं धर्मादिकृत्यं मुदा ॥ २ ॥ -शार्दूल. तत्पट्टे विजयादिसेनसुगुरुर्जातः सुधादीधिति स्तत्पट्टोदयभानुभानुरभवद् देवेशवन्द्यक्रमः । श्रीमच्छ्रीविजयादिदेवसुगुरुः सूरीश्वरः शङ्कर स्तत्पट्टे विजयप्रभाख्यसुगुरुः सूरीशसेन( शीत ? )युतिः ॥ ३॥-, तत्पट्टेऽजनि शीतरश्मिसदृशः सविज्ञचूडामणिः ___ श्रीज्ञानाद् विमलाभिधानसुगुरुः सूरीशवास्तोष्पतिः। तत्पट्टाम्बरभास्वदकेसदृशोऽनुचानवर्योपमो सौभाग्यादिमसागराख्यसुगुरुस्तेनेयमाविष्कृता ॥ ४ ॥ -, रम्या शोमनपण्डितेन विहिता श्रीमज्जिनानां स्तुति स्तवृत्तिर्विहिता सुबोधकलिता प्रेक्षावतां ज्ञप्तये । श्रीमानादिमसागराः समभवन् पूर्वे बुधा विश्रुता ___ एकैकस्य पदस्य युक्तिशतशो व्याख्या कृताऽनेकशः ॥ ५॥-, सौभाग्यमूरिणा चेयं, कृता वृत्तिर्मनोरमा । बन्दिरे स्तम्भतीर्थेऽस्मिन्, श्रीमत्पार्श्वप्रसादतः ॥ ६ ॥ -अनु. श्रीज्ञानविमलमूरीश्वरेण संशोधिता चेयम् । वैसुमुनिमुनिविधु( १७७८ )वर्षे माघोज्ज्वलसप्तमीदिवसे ॥ ७॥ -आर्या १ १६०६तमे वैक्रमीयाब्दे श्रीउदयधर्मगणिभिः शतार्थी व्यरचीति जैनग्रन्थावल्यां (पृ० ३४४ )। तत्रेदमपि निवेदितं यदुत एतद्विवरणमकारि श्रीमानसागरैः । इमान मुनीश्वरानाश्रित्यायमुल्लेखो न वेति विचार्यताम् । २ अनेन रचनासमयेनावीयते यदुत जैनग्रन्थावली(पृ०३१३ )गतोल्लेखानुसारेण १६५४ तमे वैक्रमीये वर्षे श्रीमहेश्वरसरिप्रणीतशब्दभेदनासमालावृत्तिविधातारः श्रीज्ञानविमलमुनीश्वराः (ये योद्धपुरे १६६१तमे वैक्रमीयार्के श्रीहेमचन्द्रसूरिवर्यकृतनाममालाया दुर्गपदप्रबोधसज्ञकटीकारचयितृणां श्रीवल्लभमुनीश्वराणां गुरुवर्यास्ते ) प्रस्तुतश्रीप्तौभाग्यसागरगुरुवरेभ्यो भिन्नाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy