________________
मुनिराजकृतायाः] भूमिका
८१ श्रीअकब्बरसभासद्विजदर्पहरैरेभिः मालपुरीयवीजामतयो वादेन पराजिताः । तत्र तदुपदेशेन महान् प्रासादो निरमायि श्राद्धगणेन यत्र प्रतिष्ठा स्वयमकारि । ततो मारवाडदेशमागम्य जालोरनगरे चातुर्मासं कृतवन्तो भवन्त एकविंशतिजनान् दीक्षामर्पयामासुः । जाता भवतां समाशिष्यसङ्ख्या तु अशीतिः । तेषु शिष्येषु त्रयोदश पंन्यासपदधारिण आसन् । तत्र श्रीसिद्धिचन्द्रगणयो मुख्या इति प्रतिभाति । पण्डितश्रीदेवचन्द्रा अपि तेषां विनेया यद्वृत्तान्तो विचारयिष्यतेऽन्ते । श्रीऋद्धिचन्द्रनामानो मुनिवरा अपि तेषामन्तेवासिन इति ऋषिमण्डलमूलप्रतिप्रान्तेन निम्नलिखितेनोल्लेखेनावगम्यते
"संवत् १७०५वर्षे मार्गशीर्षासितपञ्चम्यां शनिवारे । भट्टारकपुरन्दरभट्टारकश्री११(५१)श्रीविजयदेवसूरीश्वरचरणसेविमुनिभक्तिविजयपठनकृते ॥ महोपाध्यायश्री१७(६ १)श्रीसकलचन्द्रगणितच्छिष्यपरवादिदलभञ्जनपण्डितश्री १७ श्रीसूरचन्द्रगणितच्छिष्यश्रीशत्रुञ्जयकरमोचनाद्यनेकसुकृतकारिमहोपाध्यायश्री१७(१८)श्रीभानुचन्द्रगणितच्छिष्यसकलपरवादिगजकेशरिपण्डितश्री(१)९श्रीऋद्धिचन्द्रगणिचरणसेविगणिललितचन्द्रेण लिखितम् । श्रीवीरमपुरे" अपरश्च गवेषणीया श्रीऋद्धिचन्दनिर्मितमृगाडूचरित्रस्य निम्नलिखिता प्रशस्तिः
"श्रीमत्तपगणगगने, गमनमणिविजयसेनसूरीशः ।
तस्यानुक्रमपट्टे, गुरुर्विजयदेवमूरिवराः ।। २८४ ॥ -आर्या तद्गच्छे सततं जयन्तु सुखदाः श्रीभानुचन्द्राश्चिरं
षण्मासाभयदायकाः क्षितिपतिं 'दिल्लीपतिं पेशलम् । सद्वाग्भिः प्रतिबोध्य शास्त्रजलधेः पारङ्गता भूतले
तीर्थेशाकरकारका गतमदाः प्राग्भारपुण्योत्कराः ॥२८५॥-शार्दूल. तस्य वर्यपदाम्भोजे, शिलीमुखानुकारिणा । सपर्यासक्तचिसेन, ऋद्धिचन्द्रेण निर्मितम् ॥ २८६ ॥ -अनु० इदं विश्व प्रसिद्धस्य, भव्याम्भोरुहभास्वतः। सच्चरित्रं मृगाङ्कन्स्य, श्लोकाभ्यसनहेतवे ॥ २८७ ॥ -युग्मम् पण्डितवातकोटीरै-रुदयचन्द्रधीधनैः।।
शुद्धीकृतमिदं सम्यक्, चरित्रं चित्तशान्तिकृत् ॥ २८८ ॥" -अनु०
एवं सत्यपि ऋद्धिचन्द्राः श्रीमानुचन्द्राणां शिष्या न वेति सन्देहास्पदं भवति श्रेष्ठिप्रेम चन्द्ररतनजीभाण्डागारसत्कनवतत्त्वप्रकरणप्रतिमान्तेन निम्नलिखितोल्लेखावलोकनेन
१ अशीतेर्मुनिमहाशयानां नामधेयानि न दृष्टिपर्थ श्रवणगोचरतां वा समागतानि । २ अस्य प्रसिद्धिकारिका श्रीआत्मानन्दसंसद् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org