________________
७९
मुनिराजकृतायाः]
भूमिका भरसीयभाषायां वर्तते, फहम्शब्दो बुद्धिवाचकोरब्बीभाषायां च विद्यते । अतः खुष्फहमित्यनेन सुबुद्धिरित्यर्थः।
श्रीसिद्धिचन्द्रगणीनां भावचन्द्रा गुरुभ्रातर इति ज्ञायते भाण्डारकर-ओरियेन्ट्लइन्स्टिटयुट्संज्ञसंस्थोपलब्धायाः श्रीशोभनस्तुतिवृत्तिमतेः प्रान्तगतनिम्नलिखितपधेन
“निरतीचारचारित्राः, सौजन्यगुणशालिनः।
भ्रातरो मावचन्द्राला, आधादर्शमलीलिखन् ॥" एतेषां श्रीलब्धिचन्द्राः श्रीसुमतिचन्द्रा अपि गुरुबन्धव इति ज्ञायते निम्नलिखितोल्लेखावलोकनेन(१)*३७गाथाप्रमाणकस्य नवखण्डपार्श्वनाथस्तवनस्य प्रतेः प्रान्ते - " वीरपरंपरहीरपटोधर सेन जश सबल विजयसेनमूरि तास पट दीपतो वादिमद जीपतो गच्छपति श्रीविजयदेवरि आ. ३६ सकलवाचकसभाभामिनीभूषणं वाचक श्रीगुरुभानुचंदा
तास चरणांबुजचंचरीक मुद भरी प्रणमति विबुधवर लब्धिचंदा" (२)*" इति सुरसुंदरीचौपइ संपूर्ण सं. १६७४ वर्ष फागुणसुदि ७ दिने मंगलवारे महोपाध्यायश्रीमानुचंद्रगणिशिष्यपंडितलब्धिचंद्रगणिना लिखिता । साधवीश्रीरूपलक्ष्मीशिष्याणीसाधवीगुणलखमीवाचनाय समर्पिता" ग्रन्थसूचीपत्रशीर्षके--
“महोपाध्यायश्रीभानुचंद्रगणितशिष्यपं.सुमतिचन्द्रग.शिष्यग.आणदचंद्रस्य पुस्तकस्य टीप लिख्यते"
श्रीसिद्धिचन्द्रगणीनां शिष्यपरम्परा
महोपाध्यायश्रीसिद्धिचन्द्राणां सुबुद्धिचन्द्रनामानो विनेया इत्यवसीयते पुण्यपत्तनपुरस्थभाण्डारकरप्राच्यशीलदूतपतिप्रान्ते निम्नलिखितोल्लेखदर्शनात्
" पातशाहिश्रीअकब्बर....महोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपातिशाहश्रीअकब्बरतथापातिशाहजिहांगीरप्रदत्तषु(खु)ष्फहम्नादिरज्जमान( रुज्जमान ?)द्वितीयाभिधानमहोपाध्यायश्री५सिद्धिचन्द्रग[ णि शिष्येण मुनिसुबुद्धिचन्द्रेण लिखितं काव्यमेतत् संवत् १७०१वर्षे आश्विन वदि द्वितीयायां श्री'कर्पटवाणिज्य'नगरे"
एतेषां कियन्तोऽन्तेवासिन इति नावगम्यते साधनाभावात् , परन्तु लींबडीभाण्डागारसत्कपद्मसागरीकथाप्रतिप्रान्तस्थनिम्नलिखितोल्लेखगतसिद्धिचन्द्राः प्रस्तुतास्तर्हि तत्र तेषां शिष्यपशिष्यादिनामानि ज्ञायन्ते यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org