________________
स्तुतिचतुविशतिकायाः
[श्रीशोमनविद्वधुरन्धराणां मुनिपुरन्दराणां श्रीसिद्धिचन्द्रगणीनां पद्शास्त्रविज्ञता फारसीभाषानिपुणता पुस्फुरष्फ)हमिति विरुदधारिता च सविशेष समर्थ्यते तत्कृतभक्तामरस्तोत्रवृत्तिमारम्भिकनिम्नलिखितपद्य:
"कर्ता शतावधानानां, विजेतोन्मत्तवादिनाम् । वेत्ता षडपि शास्त्राणा-मध्येता फारसीमपि । अकबरसुरत्राण-हृदयाम्बुजषटपदः। दधानः षुश्फहमिति, विरुदं शाहिनार्पितम् ॥ तेन वाचकचन्द्रेण, सिद्धिचन्द्रेण तन्यते ।
भक्तामरस्य बालानां, वृत्तिव्युत्पत्तिहेतवे ॥ एतस्यां श्रीभक्तामरवृत्तौ श्रीसिद्धिचन्द्रगणिभिः स्वप्रणीतवृद्धप्रस्तावोक्तिरत्ना. करात् कानिचित् पद्यानि उल्लेखितानि । निदर्शनार्थमवतार्यते पद्यत्रितयम्
" उस्कूजन्तु वटे वटे बत बकाः काका वराका अपि ___ क्रां कुर्वन्तु सदा निनादपटवस्ते पिष्पले पिष्पले । सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटवः
क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ वारां राशिरसौ प्रसूय भवती रत्नाकरत्वं गतो
लक्ष्मि ! त्वत्पतिभावमेत्य मुरजित् जातस्त्रिलोकीपतिः । कन्दर्पो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभूत
सर्वत्र त्वदनुग्रहमणयिनी मन्ये महत्त्वस्थितिः॥ गौरीशङ्करयोः सुतो विजयते स्वामी कुमारवती
धतेऽद्यापि चतुर्मुखस्य तनया कौमारमेव व्रतम् । यल्लक्ष्मीपतिभूः प्रियाद्वययुतोऽनलोऽपि संसेव्यते ___ तन्मन्ये कमले ! त्वदाश्रयवशात् सर्वोऽपि मान्यो जनः॥"
अनेनावसीयते वाचकचन्द्राणां श्रीसिद्धिचन्द्रगणीनां प्रखरपाण्डित्यं परन्तु तेषां यावनीभाषामगुणितनिःशेषग्रन्थज्ञातृत्व-शाहिराजाध्यापकत्व-चारित्रनिश्चलत्व-गुरुवचनासक्तत्व-कादम्बरीकाव्योत्तरभागवृत्तिकारत्वादिविषयस्तु विशदीक्रियते तत्कृतैतवृत्तिप्रारम्भिकनिम्नलिखितपथैः
१ एतत्स्तोत्रप्रान्ते अन्यनत्थेषु च अष्टोत्तरशतावधानेत्युल्लेखो दरीदृश्यते । २ एतत् पयं प्रेक्ष्यते श्रीभक्तामरस्तोत्रस्य षष्ठश्लोकवृत्तौ सुभाषितरत्नभाण्डागारे (पृ० २३६ ) च । २-४ एते पये त्ववलोक्येते अन्तिमश्लोकवृत्तौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org