SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः] भूमिका अपरच्च जयविजयेतिनाम्ना विश्रुता अन्येऽपि कतिपया मुनीश्वराः सन्ति, परन्तु ते प्रस्तुतटीकाकाराद् भिन्नाः। तत्र तु श्रीशान्तिमरिकृतजीवविचारस्य श्रीपाठकरत्नाकररचितवृत्तिमान्तप्रशस्तिगतनिम्नलिखितपद्यसार्धद्वयं प्रमाणम् " आयो वाचकसेनधीनपटुधीर्यो मन्त्रविद्याऽग्रणी रन्योऽभून्महिमाग्रलाभसहितः पुण्यश्रिया संहितः ॥ ८॥ सुगुणगणिस्तृतीयः सरलमतिः कुशलसिंहनामाऽन्यः। विरव्यातचन्द्रवर्धनगणिरप्यासीत् क्रमेण ततः ॥९॥ तेषां शिष्यत्रितयं समजनि जगतीतले विदितविद्यम् ।। श्रीमेघनन्दन-दयानन्दन-जयविजयनामानः ॥१०॥" किश्च श्रीविजयहंसगणिशिष्यपं० जयविजयगणयोऽपि अन्ये । एभिः पर्यन्ताराधनाप्रतिरलेखिं । 'श्रीविजयप्रभसूरिसज्झाय'कर्तारः श्रीजयविजया अप्यपरे, पण्डितश्रीगुणविजयानां शिष्यत्वात् । ____एवं वैक्रमीयसप्तदशशताब्या १६६१ तमे वर्षे संमेतशिखरतीर्थमालाविधातारा, १६५५ तमेऽब्दे कल्याणविजयगणिरासरचयितारः, हीरविजयमूरिपुण्यखाणिसझायकर्तारः, विजयसेनसूरिसझायप्रणेतारो जयविजयाः एकैव व्यक्तिर्भिन्ना वा स्युः, परन्तु १६७०तमे शरदि सप्ततिस्थानकवृत्तेः धर्मरत्नमञ्जूषायाश्च संशोधनेन यैः श्रीदेवविजयानां साहाय्यं कृतं ते तु प्रस्तुतवृत्तिकाराः शकुनचौपाइरचयितार एवति कथने का सन्देहः । श्रीजयविजयगणिभिलिखिताः प्रतयः प्रो. पिटर्सन( १८९२-९५ )रिपॉर्टगतसङ्ग्रहणीप्रतिलिखिता श्रीशोभनस्तुतितिकारैरित्यवगम्यते निम्नलिखितोल्लेखात् " संवत् १६६८ वर्षे फाल्गुनमासे कृष्णपक्षे नवम्यां तिथौ रविवासरे लिखितेयं प्रतिः सकलकोविदकुलालङ्कारहारपण्डितप्रकाण्डश्री ५ श्रीदेवविजयगणिचरणवरपुण्डरीकपरिचरणप्रवणान्तःकरणमधुकरेण गणिना जयविजयेनेति श्रेयः" ____ डॉ०भाण्डारकर( १८८४-८७ )रिपॉर्टगतशैक्षोपस्थापनविधिप्रतिरपि लिपीकृतैभिरित्यवबुध्यते निम्नलिखितोल्लेखात्-- " सकलपण्डितपुरन्दरापुरन्दरायमाणपण्डितश्रीपश्रीदेवविजयगणिचरणाम्पुजचश्वरीकेण १ एतदवगम्यते उदेपुरस्थगोडीजीभाण्डागारसत्कातिप्रान्तस्थेन निम्नलिखितोल्लेखेन " संवत् १६७८ वर्षे कार्तिक शुदि अष्टमी दिने बृहस्पतिवारे श्रीधाणुरानगरे पं०श्रीविजयहंसगणीशिष्यपं० जयविजयगणिना लिखिता।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy