SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुविशतिकायाः [श्रीशोमनएतस्य प्रथमाध्यायसमाप्तौ तु अयमुल्लेखः " पंडित देवविजय केरो सीस, बोलि भाणुजय नामें सीस; दुर्गा शकुन उदधि नहि पार, संखे कीधो उद्धार." उपरितनपङ्क्तिप्रेक्षणेन समुपतिष्ठति शङ्का यदुत 'शकुनचतुष्पादिका रचयितारः श्रीमाणुजयाः श्रीजयविजया एवान्ये वा। महोपाप्याध्यायश्रीविनयविजयगणिभिः श्रीविजयदेवसूरीनुद्दिश्य लिखिते विज्ञप्तिपत्रे (विज्ञप्तित्रिवेण्याः प्रस्तावनायां २९तमे पृष्ठे ) अयमुल्लेखः " जयविजयनामधिज्जा वेलाउलवंदिरे ठिआ विबुहा । __ अमरविजयेन मुनिना युक्ता मुनिवृद्धिविजयेन ॥ ९२ ॥" अत्रत्याः श्रीजयविजया अपि के इति निर्णीयन्तामितिहासज्ञैः। यदा श्रीअकब्चरक्ष्मापत्यामन्त्रणपुरस्सरं पादशाहमिलनार्थ श्रीविक्रमात् १६३९प्रमिते वर्षे ज्येष्ठकृष्णद्वादश्यां जाग्रद्भाग्यसेवधिः प्रियागमविधिश्चारित्रिणां चावधिः गुरुहीरहीरविजयसूरयः सप्तषष्टिमुनिवरपरिवृताः ‘फत्तहेपुरसीक्री 'नगरे प्रविविशुः तदा कल्पदीपिकाकार: श्रीजयविजयास्तेषु मुनिवर्येष्वासन्निति समवगम्यते कविराजश्रीऋषभदासप्रणीतश्रीविजयहीरसरिरासान्तर्गतनिम्नलिखितपक्तिप्रेक्षणेन " फत्तेपुर भणी आवे जसें, अनेक पंडित पंठि तसें; जसविजय जयविजय पंन्यास, कल्पदीपिका कीधी खास." -आनन्दकाव्यमहोदधौ पञ्चमे मौक्तिके १०८तमे पृष्ठे एतेषां पंन्यासपदवी प्रदत्ता श्रीहरिविजयसूरिभिः १६४७तमे शरदि स्तम्भनतीर्थे । तत्र च एतत्पुस्तकस्य १७०तमपृष्ठगतनिम्नलिखिताः पङ्क्तयः प्रमाणम् "हीर आव्या साहा श्रीमल्ल घेर, तिहां धन खरचीयां बहु पेर, साधतणी पोहोचाड़े आस, जयविजय कीधा पंन्यास, सडताले संवच्छरी रही, हीरविजय पछे चाल्या सही." १६७७ प्रमिते संवत्सरे कल्पदीपिका यैः श्रीजयविजयैर्व्यरचि ते प्रस्तुतवृत्तिकारेभ्यो भिन्ना इति मान्यता नास्थानीया, कर्तृस्वहस्तलिखितपतौ श्रीजयविजयवाचकस्य महोपाध्याय१ + इयं प्रतिः वडोदरानगरस्य राजकीयमुख्यपुस्तकालये वर्तते । तत्र प्रारम्भिक उल्लेखस्तु यथा “महोपाध्यायश्रीविमलहर्षगणिगुरुभ्यो नमो नमः ।" अन्तिमस्त्वेवम् " सुविहितमुनिवृन्दासेव्यमानांहिपद्मा जिनगुरुजनवाक्याराधनोद्भूतपद्माः । विजयिविजयसेनश्रीगुरोः प्रौढपट्टे विजयतिलकसंज्ञा जज्ञिरे सूरिचन्द्राः ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy