________________
स्तुतिचतुर्विंशतिकायाः
[ श्रीशोमन
किश्च 'श्रीविजयप्रभसूरिसज्झाय -' श्रीविजयदेवसूरिसज्झाय कर्तॄणां श्रीतत्त्वविजयानां गुरवः श्रीदेवविजयाः के इति निर्णीयतामितिहास तत्त्वज्ञैः । धर्मबुद्धिपापबुद्धिकथाप्रान्ते निम्नलिखिता प्रशस्तिः समस्ति - 'गद्यबन्धात् कथा चेयं, वृत्तबद्धा कृता मया । श्रीमानविजयाख्येम, शुद्धिः कार्या सुपण्डितैः ॥ ६५ ॥ तपगच्छाम्बरदिनमणितुल्य श्रीविजयदेवसूरीणाम् ।
पट्टे व्यजयन्त सदा श्रीविजयप्रभसूरिवराः ॥ ६६ ॥ तेषां मुनिसमुदाये विबुधश्रीजयविजय सद्गुरूणाम् । विहितेयं शिष्येण स्वशिष्यदेवविजयस्य कृते ॥ ६७ ॥" अत्रत्या श्रीदेवविजयाः प्रस्तुता न वेति मीमांसनीयं सङ्ख्यावद्भिः ।
६२
446
एकैः श्रीदेवविजयै रचितः उत्तराध्ययनस्वाध्यायः, परन्तु न निश्चीयते के इमे इति । अस्यादिमान्त्ये गाथे तु यथा
" पणमिय गोयमसामि, थुणामि भत्तीइ उत्तरज्झयणं । पढमं विणयज्झयणं, परीसहज्झयण तह बीयं ॥ १ ॥ सिरितवगच्छमुणीसर - रज्जे सिरिविजय सेणसूरीणं । एसो सज्झाय कओ, विबुहेणं देवविजएणं ॥ १३ ॥ " यतिश्रीविवेकविजय सत्कोदय पुरस्थभाण्डागारस्य सीमन्धर स्वामिविज्ञप्तिस्तवनप्रान्ते निम्नलिखितोल्लेखो वर्तते -
66
संवत् १६९४ वर्षे माह सुदि १२ बुधे वाल्हीग्राममध्ये मुनिकेस (श)त्र लिस (खि) तं ॥ गणिश्रीदेवविजयजी तत्शिष्यगणिदीपविजयवाचनार्थं " अत्र कान् देवविजयानुद्दिश्योल्लेखोऽयमिति न ज्ञायते ।
लींबडीज्ञानमन्दिरसत्कहस्तलिखितप्रति सूचिपत्रे निम्नलिखितग्रन्थविधायकानां देवविजयेति नाम दृश्यते, परन्तु तेषामभिज्ञानार्थे विशिष्टसाधनानामावश्यकता
( १ ) अढार नात्रानी सझाय ( सं० १६१८ ), ( २ ) एकादशीस्वाध्यायः, ( ३ ) चन्दनबालास्वाध्यायादिः (सं० १६२० ), ( ४ ) दादापार्श्वनाथस्तवनम्, (५) नेमिजिनस्तवनम्, ( ६ ) पञ्चमीस्वाध्यायः, ( ७ ) सीमन्धरस्वामिचैत्यवन्दनम्, (८) अष्टकर्मचूर्ण
तपःस्वाध्यायः ।
*
श्रीशङ्केश्वरपार्श्वस्तवने एकादशी गाथा यथा
66
सत्तर सत्तावीस १७२७ संवच्छरे हो लाल सुदि माधव गुरुवार सा. तेरस दिन प्रभु वीनव्यो हो लाल देवविजय जयकार सा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org