________________
सुनिराजलतायाः]
মুর্দিন্ধা प्रवचनपरीक्षादिनानाग्रन्थगुम्फितृश्रीधर्मसागरोपाध्यायपक्षकारिश्रीविजयदेवसूरीन् पिहाप श्रोदेवविजयाः श्रीविजयानन्दसूरीणामाज्ञां पालयामासुः । इमे श्रीदेवविजयाः श्रीहमामसइस्रस्तोत्रविधातृभ्यो न भिन्नाः स्युरिति तय॑ते एतत्पशस्तिगतनवमदशमपद्यावमर्शनेन ।
प्रायः समसमयिसमाननामधारिणः अन्येऽपि कतिपये मुनिवर्याः । ययाहि
श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयैः दर्शनहिमकरगगनौवेयक(१६९०) सङ्ख्यवत्सरे विरचितस्य विचाररत्नाकरस्य संशोधकाः श्रीदेव विजयवाचकाः श्रीरामविजयानां विनेया इति ज्ञायते एतद्ग्रन्थस्य प्रशस्ति(पृ० २०१)गतनिम्नलिखितपघालोचनेन
" एतेषामादशात् समुच्चितः प्रवचनादयं ग्रन्थः ।। श्रीहीरविजयगणिपतिशिशुपाठककीर्तिविजयेन ॥ २८ ॥ संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यः ।
श्रीदेवविजयवाचकवृषभैः कोविदकुलोत्तंसैः ॥ २९॥" परन्तु इमे देवविजया अपरे इति भाति । यदि रामविजयस्थाने राजविजय इति पाठो भवेत् तर्हि त्वन्यथा सम्भावना।
१ आनन्दकाव्यमहोदधेः सप्तमे मौक्तिके प्रसिद्ध कविवर समयसुन्दर 'नाम्नि निबन्धे (पृ०३) कुमतिकंदकुद्दालस्यापरं नाम प्रवचनपरीक्षा दरीदृश्यते, परन्तु तत् प्रमाणविकलं प्रतिभाति । एतजिज्ञासुभिर्विलोक्यतां ऐतिहासिकराससङ्ग्रहस्य चतुर्थस्य विभागस्य मुनिराजश्रीविद्याविजयविरचितं निरीक्षणम् (पृ. १२)।
२ इमे महोपाध्यायाः श्रीधर्मसागरगणयः श्रीहीरहर्ष(हीरविजयसूरि) श्रीराजविमलोपाध्यायसहयोगिनः समयविद्याविलासवसतयः सकलवादिमौलिमौलयः औष्ट्रिकमतोत्सूत्रदीपिका( सं. १६१७ )-व्याख्यानविधिशतक-कल्पकिरणावली( सं. १६२८)-तपागच्छपट्टावली-तत्त्वतरङ्गिणी-सर्वज्ञशतक-तवृत्ति-श्रीजम्बूद्दीपप्रज्ञप्तिवृत्ति(सं. १६३९ )-महावीरविज्ञप्तिद्वात्रिंशिका-पर्युषणाशतक-तवृत्ति-ई-पथिकोषाशिकाप्रमुखप्रौढग्रन्थगुम्फितारः पं. श्रीजीवर्षिगणीनां विनेयाः श्रीलब्धिसागरादीनां गुरवः ( षट्त्रिंशज्जल्पविचारकर्तृश्रीभावविजयमतेन), सोहमकुलरत्नपट्टावलीप्रयोजकाभिप्रायेण श्रीविजयदेवसूरीणां मातुलाश्च । एतेषां परम्पराऽवसीयते लींबडीभाण्डागारसत्कसर्वज्ञशतकबालावबोधप्रतिगतनिम्नलिखितोल्लेखात्
" इति श्रीमत्तपागच्छाधिराजभट्टारकश्रीविजयसेनसूरीश्वरपट्टालङ्कार सुविहितसाधुपरम्परासुन्दरीशृङ्गारहारभट्टारकीराजसागरसूरीश्वरपट्टोदयाचलसहस्रकिरणतरुणप्रभावभट्टारकश्रीवृद्धिसागरसूरीश्वरविजयमानराज्य महोपाध्यायश्रीधर्मसागरगणिशिष्यमुख्योपाध्यायश्रीश्रुतसागरगणिशिष्यकलिन्दिकाश्रयोपाध्यायश्री५शान्तिसागरगणिशिष्यसकलगुणगरिष्ठवाचकश्रीबुद्धिसागरगणिसतीर्थ्यपण्डितश्रीअमृतसागरगणिविरचिते. श्रीसर्वशशतकवृत्तिवालावबोधे प्रथमाधिकारः ॥"
३ विचित्रेयं रचनासमयनिर्देशिनी शैली । ४ ग्रन्थोऽयं प्राकट्यं नीतः श्रेष्ठिदेवचन्द्र-लालभाईजैनपुस्तकोद्धारसंस्थगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org