SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ॥ सूरिभुवनभान्वष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणी सज्ज्ञानदीप्तिजननैकसहस्रभानो ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनः कृशानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् 11811 (वसंततिलका) यो वर्द्धमानतपसामतिवर्द्धमान भावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥२॥ तेजः परं परमतेज इतो समस्ति दुर्दृष्टिभितदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३॥ Jain Education International - तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो । तुभ्यं नमो निबिडमोहतमोघ्हभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४॥ गुणैर्महानसि गुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष । वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥५॥ कल्लोलकृद्वरकृपा भवतो विभाति देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥६॥ सीमानमत्र न गता न हि सा कलाऽस्ति प्रक्रान्तदिक्सुगुणसौरभ भाग्गुरोऽसि । दृष्टाश्च दोषरिपवः दशमीदशायां भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥७॥ त्वद्पादपद्मभ्रमरेण देव । श्रीहेमचन्द्रोक्तिकृता सदैव । भानो ! नुतोऽसीत्यतिभक्तिभावात् त्वत्संस्मृतेः साश्रुससम्भ्रमेण ॥८॥ 蛋蛋蛋 For Private & Personal Use Only ( इन्द्रवज्रा ) www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy