________________
२२४
श्रीवीरस्तुतिः ते? रत्त० पङ्कजं हि कुमुदोत्पलादिविशेषनिर्देशं विना कविसमये रक्तमेव वर्ण्यते । नागेन्द्रो हि प्रायः कृष्ण एव स्यात् । चन्द्रस्तु पाण्डुर एव । पुनस्त्रये किंवि० ? सिरिनि० श्री:-लक्ष्मीदेवता तस्या
निकेता-निवासाः । लक्ष्मीर्हि पङकजे गजे चन्द्रे च वसतीति ५ रूढिः । तथा च लक्ष्मीस्तवे
" गजे शो मधौ च्छत्रे चन्द्रे पद्मे जिनालये।
मौक्तिके विहामस्वर्णे या नित्यं परमेश्वरी ॥१॥" पुनः किंवि० ते? सीयंकु० शीतं अङ्कुशो ग्रहश्च तेभ्यो भीरवःकातराः। पङ्कजं हि तुषारेण दह्यते इति शीतभीरु । गजेन्द्रस्त्वङ्कुशतोदनाद् भीरुः।चन्द्रश्च ग्रहात्-सामर्थ्यात् राहुतो भीरुः।पुनः किंविशिष्टाः? जलथ०जलं च स्थलं च नभश्च तानि मण्डयन्ति-अलङ्कुर्वन्तीत्येवंशीला जलमण्डनाः । तिन्नि त्रयस्त्रिसङ्ख्याः। पुनः किंवि० सुरहि० पङ्कजं सुगन्धि गजेन्द्रः मत्तः-उन्मदिष्णुः चन्द्रस्तु प्रतिपूर्णः-सम्पूर्णमण्डलस्त
स्यैव हि सुखेनौपम्य ग्रहभीरुत्वं युज्यते । एवंप्रकारनैसर्गिकोपाधिक१५ गुणविशिष्टा अपि न शक्ता इति गाथाद्वयार्थः।
___ अथ चतुर्थगाथया स्तुतिं निगमयन् प्रणिधानमाह-एवं० पूर्वोक्तप्रकारेण जिना-रागादिजेतृत्वात् सामान्यकेवलिनस्तेविन्द्रः ३४अतिशयसमृद्धयनुभवनाज्जिनेन्द्रः । वीरश्चासौ जिनेन्द्रश्च वी० । अप्सरसो-देवाङ्गना गणयन्ति-भोगार्हत्वात् बहु मन्यन्तेऽप्सरोगणाःदेवास्ते च सधश्च-चतुर्वर्णः श्रमणसङ्घस्ताभ्यां संस्तुत इति गम्यते भगवान् ॥ 'ऐश्वर्यस्य सम०" (इति) षड्विधभगयुक्तः । पालि० पालयन्ति-रक्षन्तीति पालिन:-पालकास्तेषां (त्रयं) पालित्रयम् । तत ऊर्ध्वलोकपाला इन्द्राः, तिर्यग्लोकपाला नरेन्द्रव्यन्तरेन्द्रज्योतिष्केन्द्राः, अधोलो० भवनपतीन्द्रा इति । अनेन पालित्रयेण क; मदेन करणभूतेन १ सम्पूर्ण पद्यं त्वेवम् - " ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्यार्थस्य यत्नस्य षण्णां भग इतीङ्गना ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org