________________
क - परिशिष्टम् || श्रीपादलिप्तसूरिकृता वीरस्तुतिः ॥ ( सावचूरिः )
गाहाजुयलेण जिणं मयमोहविवज्जियं जियकसायं । थोसामि तिसंघारण तिन्नसंगं महावीरं ॥ १ ॥ अस्यावचूरिर्लिख्यते, यथा- अस्यातिलघीयस्त्वेऽपि स्तवनत्वं स्यादेव, आगमे पद्यचतुष्कादारभ्य यावदष्टोत्तरं पद्यशतं स्तवेषु सङ्ख्याभिधानात् । अथ गाथाऽर्थः कथ्यते-- अस्य स्तवस्य गाथा चतुष्टयात्मकत्वेऽपि भायान्त्यगाथयोर्यथासङ्ख्यं प्रस्तावनानिगमनरूपत्वाद् गाथायुगलेनैव भगवतो लोचनचङ्क्रमितमुखानि वर्णयति - सुकु० न च० व्याख्यावीर त्ति लुप्तषष्ठीविभक्तिकं पदं प्राकृतत्वात् । श्रीवीरस्य सम्बन्धिनां लोयण लोचने-नेत्रे चङ्क्रमणं - पादविहरणात्मिका गतिरित्यर्थः, मुखं च[न्द्र ]वदनम् । द्वन्द्वः तेषां लीलां - शोभां सादृश्यमित्यर्थः हातुं गन्तुं प्राप्तुं न चयन्ति - न शक्नुवन्ति, " शकेश्चयतरतीरपारा: " ( सिद्ध० ८-४-४६ ) इति सिद्धमप्राकृतलक्षणात् । हातुमिति "ओहां क् गतावित्यस्य धातोः प्रयोगः । जे इति पादपूरणे, "इजेरा: पादपूरणे " इति (सिद्ध० ८ - २ - ११७ ) प्राकृतवचनात् । के न शक्नुवन्तीत्याह -- पंक० कमल १ महागज २ शशिनः ३ । अत्र यथासङ्ख्यमलङ्कारः । पङ्कजं भगवन्नेत्रयोर्लीलां हातुं न शक्तं तस्मादप्यत्यन्तराये नेत्रे । गजेन्द्रचङ्क्रमितलीलां नेतुमशक्तः, गजेन्द्रगतितोऽप्यनन्तप्रकर्षशालित्वाद् भगवद्गतेः । चन्द्रस्तु मुखलीलां गन्तुं न शक्तः, तस्मादप्यात्यन्तिकगुणोपेतत्वाद् भगवद्वदनस्य । पङ्कजादयः किंविशिष्टाः ? सुकु० तत्र सुकुमारं - कोमलं प्रकृत्या मृदुलं पङ्कजम्, धीरःनिष्प्रकम्पः शौण्डीर्ययुक्तत्वाद् गजेन्द्रो धीरः, सौम्यो-नेत्राह्लादकारी चन्द्रोऽपि स्वभावात् तापनिर्वापणप्रवणत्वात् (सौम्यः) । पुनः किंवि०
Jain Education International
For Private & Personal Use Only
१०
૧૫
२०
૨૫
www.jainelibrary.org