________________
क- परिशिष्टम्
esप्यामोदवन्मदः " इत्यमरकोश (का. ३, व. ३, श्लो. ९१ ) - वचनात् हर्षेण कृत्वा महितः -पूजितः सर्वदुरितानां - दारिद्यरोग जरादीनां क्षयं दिशतु इति ॥ ४॥
"
अथाद्यगाथार्थमाह-गाथायुगलेन - मात्राच्छन्दोविशेषरूपकद्वयेन । जिनं - रागादिजेतारं मयमो० मद्यपानजनितो विकारो मद:क्षीवता, मद इव मदः पारवश्यत्वात् मदश्चासौ मोहव- मोहनीयकर्म च मदमोहः
"
"9
" जह मज्जपाणमूढो, लोए पुरिसो परव्वसो होइ । तह मोहेण विमूढो, जीवो वि परव्वसो होइ ॥ १॥ इति तेन वर्जितम् । मदशब्दस्याहङ्कारत्वे व्याख्यायमाने जितकषायमित्यनेन सह पौनरुच्यं स्यात् । कषायाणां मोहान्तर्गतत्वेऽपि पृथगुपादानं संसारकारणेषु प्राधान्यख्यापनार्थम् । 'त्रिसङ्घातेन' सम्यग्दर्शनज्ञान चारित्ररूपरत्नमीलकेन साधकतमेन । 'तीर्णसङ्ग' तीर्णः सङ्गः - कर्म्म नोकर्मसम्बन्धरूपः संयोगो येन तम्, अशरीरमित्यर्थः । अथवा त्रिसङ्घातेन स्तोष्ये इति योज्यम् । तत्र त्रयाणां वक्ष्यमाणलोचनादिवर्ण्यवस्तूनां सङ्घातः तेन ।
अथात्र स्वर्णसिद्धिप्रकारेण व्याख्या - तिसृणां ओषधीनां रक्तदुग्धिका सोमवल्लो बहुफलीनां सङ्घातेन - सम ( वा ) येन 'थोसामि' त्ति स्वेदन मुखोद्घाटनजारणादिविधिं विधास्यामि । तत्र स्वेदनं गोमहिष्यऽजानरखरमुत्रैः काञ्जिकसहितैर्दोलायन्त्रेण । जारणं बिडनिष्फाटनेन गोरोचना स्फटिकी नवसारगन्धकह रितालस्यन्दसौभाग्यरूपमौषधषट्कचूर्ण समांशं अजापित्तके निक्षिप्य मासमेकं चुल्लया उपरि धार्यम् । इत्थं बिडं निष्फाट्य मुखमुद्घाटयते । तचेत्थम् - कृष्णाभ्रामक पत्रं कृत्वा यवारनालमध्ये प्रहराष्टकं निक्षिप्य फागकन्दलैर्दुर्वाना लैर्वा सह वस्त्रेण गाल्यते । तद्द्रव्य (ध्व) रूपं स्थान विवर्जितम् । रसस्य हि त्रयो दोषाः-मलं शिखी विषं चेति । ततो मयमोहविवज्जियं इति अनेन मलविपलक्षणदोषद्वयवर्जितत्वं उक्त्वा सम्प्रतिदहनदोषनिरासार्थं विशेषणमाह- जियकसायं ति । जित:
Jain Education International
For Private & Personal Use Only
૨૫
१०
૧૫
२०
૨૫
www.jainelibrary.org