________________
श्रीवप्पभट्टिसूरिकृता.
जिनमताय प्रणामः
अवमसन्तमसं ततमानयत्
प्रलयमालयमागमरोचिषाम् । भुवनपावनपालनमर्कवज
जिनमतं नम तन्नयवन्नहो! ॥३॥-त० मानवीदेव्याः स्तुतिः
जयति सायतिसामकृदन्विता
सुतरुणा तरुणाब्जसमद्युतिः। कजगता जगता समुदा नुता
नतिमताऽतिमता भुवि 'मानवी' ॥४॥९॥-दुत०
Excccccco
ccom
१० श्रीशीतलजिनस्तुतयः अथ श्रीशीतलनाथस्य स्तुतिः
विहरति भुवि यस्मिन् देवलोकोपमानः
समजनि नरलोकः 'शीतलो'कोपमानः । ऋजिमसलिलधाराधौतमायापरागः स भवतु भवभीतेः संशमायापरागः ॥१॥
-मालिनी (८, ७) जिनवराणामुपासना
यमभिनवितुमुच्चैर्दिव्यराजीववार
स्थितचरणसरोजं भव्यराजी ववार । जिनवरविसरं तं पापविध्वंसदक्षं
शरणमित विदन्तो मा स्म विद्ध्वं सदक्षम् ॥२॥-मालिनी सिद्धान्तस्य स्तुतिः
पटुररितिमिरौघव्याहतावर्यमेव
प्रवितरति जनेभ्यो यः सदा वर्यमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org