________________
चतुर्विंशतिका. विलीनमलकेवलातुलविकासभारा जिना
मुदं विदधतः सदा सुवचसा सभाराजिना ॥२॥-पृथ्वी जिनागमस्मरणम्
समस्तभुवनत्रयप्रथनसज्जनानापदः
प्रमोचयति यः स्मृतः सपदि सज्जनानापदः । समुल्लसितभङ्गाकं तममलं भजै नागमं
स्फुरन्नयनिवारितासदुपलम्भजैनागमम् ॥ ३ ॥-पृथ्वी कालीदेव्याः स्तुतिः
अशिश्रियत' याऽम्बुजं धृतगदाक्षमालाऽघवान्
यया बत विपूयते भयशमक्षमाऽलाघवा। घनाञ्जनसमप्रभा विहतघोतकालीहितं ममातुलमसौ सदा प्रविदधातु 'काली' हितम् ४॥८॥-पृथ्वी
९ श्रीसुविधिजिनस्तुतयः
---- momenअथ श्रीसुविधिनाथाय प्रणामः
विमलकोमलकोकनदच्छद___ च्छविहराविह राजभिरामरैः । सततनूततनू 'सुविधेः' क्रमौ नमत हेऽमतहेठनलालसाः! ॥१॥
-द्रुतविलम्बितम् जिनेश्वरेभ्यो विज्ञप्तिः
कलशकुन्तशकुन्तवराङ्कित
कमतला मतलाभकरा नृणाम् । विगतरागतरा वितरन्तु नो
हितमनन्तमनङ्गजितो जिनाः ॥२॥-दुत० . काशभारा' इत्यपि पाठः । २ 'धातुकाली०' इत्यपि पादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org