________________
श्रीबप्पभट्टिसरिकृता.
७ श्रीसुपार्श्वजिनस्तुतयः
अथ श्रीसुपार्श्वनाथस्य संकीर्तनम्
आशास्ते यः स्तवै युष्मा-नित्यसौ ख्यातिभाजनः । श्री सुपार्श्व!' भवत्येव, नित्यसौख्यातिभा जनः ॥१॥
-अनुष्टुप
जिनकदम्बककीर्तनम्
जिनांही नौमि यौ जुष्टा-वानतामरसंसदा ।
आरूढौ दिव्यसौवर्णा-वानतामरसं सदा ॥२॥-अनु० जिनवाणीविचार:
यशो धत्ते न जातारि-शमना विलसन् न या।
साऽऽर्हती भारती दत्तां, शमनाविलसन्नया ॥३॥-अनु० अप्रतिचक्रादेव्याः प्रार्थना
आरूढा गरुडं हेमा-भाऽसमा नाशितारिभिः । पाया'दप्रतिचक्रा' वो, भासमाना शितारिभिः ॥४॥७॥-अनु०
८ श्रीचन्द्रप्रभस्तुतयः
अथ श्रीचन्द्रप्रभस्य स्तुतिः
भवोद्भवतृषां भृशं कृतशिवप्रपं चामरैः ___ सहर्षमुपवीजितं वरवपुःप्रपञ्चामरैः। प्रभावलयकान्ततापहसितोरुचन्द्रप्रभं प्रणौमि परमेश्वरं विनयचारु 'चन्द्रप्रभम् ॥ १॥
___-पृथ्वी (८, ९) जिनस्वरूपम्
अवन्तु भवतो भवात् कलुषवासकादर्पकाः
सुखातिशयसम्पदा भुवनभासकादर्पकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org