________________
चतुर्विंशतिका. ६ श्रीपद्मप्रभजिनस्तुतयः
→or- - अथ श्रीपद्मप्रभनाथस्य स्तुतिः
वर्णेन तुल्यरुचिसम्पदि विद्रुमाणां
पुष्पोत्करैः सुरगणेन दिवि द्रुमाणाम् । अभ्यर्चिते प्रमदगर्भमजे यशस्ये 'पद्मप्रभे' कुरुत भक्तिमजेयशस्ये ॥१॥
-वसन्ततिलका
समस्त जिनेश्वराणां स्तुतिः
ये मजनोदकपवित्रितमन्दरागा
स्तोषेण यानलमुपासत मन्दरागाः। .. धर्मोदयाब्धिपतने वनराजिनाव
स्ते पान्तु नन्दितसदेवनरा जिना वः॥ २॥-वसन्त० जिनमतविचारः
शच्यादिदिव्यवनितौघधवस्तुत ! त्व___ मव्याहतोदितयथाविधवस्तुतत्त्व!। स्थानं जिनेन्द्रमत ! नित्यमकम्प्रदेहि
जन्माद्यनन्तविपदां शमकं प्रदेहि ॥३॥-वसम्त० षज्राङ्कुशीदेव्याः स्तुतिः
अध्यास्त या कनकरुक् सितवारणेशं ____ 'वज्राङ्कुशी' पटुतराऽहितवारणे शम् । न ह्येकधैव विजये बहुधा तु सारं
वज्राङ्कुशं धृतवती विदधातु साऽरम् ॥ ४ ॥६॥-वसन्स०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org