________________
चतुर्विंशतिका. स हि बहुविधजन्मवातजैनः कृतान्तः
कृतकुमतविघातः पातु जैनः कृतान्तः ॥ ३ ॥-मालिनी पुरुषदत्तादेव्याः स्तुतिः
भ्रमति भुवि महिष्या याऽऽमहासिन्धु नाना
कृतजिनगृहमालासन्महाऽसिं धुनाना। कनकनिभवपुःश्रीरञ्जसा साधिताया
रुजतु 'पुरुषदत्ता'ऽस्मासु सा साधितायाः॥४॥१०॥-मालिनी
११ श्रीश्रेयांसजिनस्तुतयः
अथ श्रीश्रेयांसनाथाय वन्दनम्
विमलितबहुतमसमलं
स्फुरत्प्रभामण्डलास्तसन्तमसमलम् । सकलश्रीश्रेयांसं प्रणमत भक्त्या जिनेश्वरं 'श्रेयांसम् ॥१॥
-आर्यागीतिः (स्कन्धकम्) जिनपतिभ्यः प्रणामः
आनन्दितभव्यजनं
घनाघघर्तिशिशिरशुभव्यजनम् । अभिवन्दे जिनदेव
क्रमयुगलं सद्गुणैः सदाऽजिनदेव ॥२॥-आर्या जिनवाण्यै नमः
जैनमुपमानरहितं
वचो जगत्राणकारि नो पुनरहितम् । प्रणमत सन्महिमकरं
भव्यमहाकुमुदबोधजन्महिमकरम् ॥ ३॥-आर्या०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org