________________
॥ सूरिभुवनभान्वष्टकम् ॥ रचयिता - प. पू. पंन्यासः श्री कल्याणबोधिविजयजी गणी
(वसंततिलका) सज्ज्ञानदीप्तिजननैकसहस्रभानो !, सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनःकृशानो !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥१॥ यो वर्द्धमानतपसामतिवर्द्धमान - भावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥२॥ तेजः परं परमतेज इतो समस्ति, कुदष्टिभिद् तदमिचंदनि चामिदष्टिः ।। भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः,भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३॥ तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोहतमोहभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४॥ गुणैर्महानसि गुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतद्रष्टिपियूषवर्ष ! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥५॥ कल्लोलकद्वरकृपा भवतो विभाति, विस्फुर्जते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे! भावाद् भजे भुवनभानुगुरो! भवन्तम् ॥६॥ सीमानमत्र न गता न हि सा कलाऽस्ति, प्रक्रान्तदिक्सुगुणसौरभभाग्गुरोऽसि दृष्टाश्च दोषनिकरा दशमीदशायां, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥७॥ त्वद्पादपद्मभ्रमरेण देव । श्रीहेमचन्द्रोक्तिकृता सदैव । भानो! नुतोऽसि भूरिभक्तिभावात्, त्वत्संस्मृतिसाश्रुससम्भ्रमेण ॥८॥(इन्द्रवज्रा)
M
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org