________________
॥ सूरिप्रेमाष्टकम् ॥ रचयिता -प. पू. पंन्यासः श्री कल्याणबोधिविजयजी गणी
(उपजाति) सिद्धान्तवार्धिः करुणोदवाहो, वात्सल्यनीरान्तिमनीरधिश्च । गीतार्थरलो गुरु गच्छनाथः पायात्स पापात् परमर्षि-प्रेमः ॥१॥ मिष्टान्नभोज्यानि फलानि यो हि, आम्रप्रमुखाण्यपि भुक्तवान्न । मां जिह्यजिह्वाजडनागपाशात्, पायात्स पापात् परमर्षि-प्रेमः ॥२॥ आक्रोशसोढाऽनपराधकारी, स्वरक्षणे यस्य न काऽपि वाञ्छा । अहो ! प्रशान्ति-नतमस्तकर्षिः, पायात्स पापात् परमर्षि-प्रेमः ॥३॥ वृद्धेऽपि काये बहुरुग्निकाये, न यस्य काङ्क्षा प्रतिकर्मणेऽहो! । अन्तोऽरियोद्धा भवभीतिधर्ता, पायात्स पापात् परमर्षि-प्रेमः ॥४॥ मुग्धीकृता द्रक् चरितं निरीक्ष्य, गुणैकपश्यापरिकुण्ठितापि । यन्नामतो सिध्यति वाञ्छितं द्राक्, पायात्स पापात् परमर्षि-प्रेमः ॥५॥ आयुःक्षयेण च्युतयोगयागः, समागतश्चैव गतश्च सेद्धं । प्राणांश्च दत्त्वा जिनशासनाय, पायात्स पापात् परमर्षि-प्रेमः ॥६॥ क्कासन्नसिद्धस्य पुनो मयाप्तिः ? व तद्गुणाब्धे-र्लवलेशलब्धि ? । तथापि याचे भवरागनागात्, पायात्स पापात् परमर्षि-प्रेमः ॥७॥ यदीयसेवा त्वियमेव शिष्टा, यदाशयस्य प्रतिपालनैव । श्रीहैमचन्द्रप्सितमेकमेव, पायात्स पापात् परमर्षि-प्रेमः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org