________________
समासविग्रहः।
૨૨૧ ५-कुसुमं वाणो यस्य स कुसुम० 'बहुव्रीहिः', कुसुमबाणस्य चम्वः कुसुम० 'तत्पुरुषः', ताभिः कुसुम० । न पीडितः अपीडितः 'नञ्तत्पुरुषः' । सकलश्चासौ लोकः सकल० 'कर्मधारयः', तं सकल० । वृजिनं एव आजिः वृजिना० 'कर्मधारयः', तस्याः वृजिना० । न जितः अजितः, जिनश्चासौ अजितश्च जिनाजितः 'कर्मधारयः ॥
६-शरणानामन्वयः शरणा० 'तत्पुरुषः', तं शरणा० । तीर्थं कुर्वन्तीति तीर्थकृतः 'उपपद'समासः, सकलाश्च ते तीर्थकृतश्च सकल० 'कर्मधारयः', तेषां सकल० । सुरैः कृतं सुरकृतं 'तत्पुरुषः', अम्बुजानि एव गर्भ अम्बुज० 'कर्मधारयः', सुरकृतं च तद् अम्बुजगर्भ च सुर० 'कर्मधारयः', सुरकृताम्बुजगर्भमेव निशान्तं येषां ते सुर० 'बहुव्रीहिः', तान् सुर० । रविणा समा रवि० 'तत्पुरुषः', तान् रवि० । अघं एव निशा अघ० 'कर्मधारयः', अघनिशाया अन्तकाः अघ० 'तत्पुरुषः', तान् अघ०॥
७-समस्तं च तद् जगत् च समस्त० 'कर्मधारयः', शुभा चासौ वस्तुता च शुभ० 'कर्मधारयः', समस्तजगतः शुभवस्तुता समस्त० 'तत्पुरुषः', कृता समस्तजगच्छुभवस्तुता यया सा कृत० 'वहुव्रीहिः' । कुवादिनां गणः कुवादि० 'तत्पुरुषः', जितः कुवादिगणो यया सा जित० 'वहुव्रीहिः' । अस्तो भवो यैस्ते अस्त० 'वहुव्रीहिः', अस्तभवैः स्तुता अस्त० 'तत्पुरुषः' । परिपूर्ण नभो यया सा परिपूर्णनभाः 'वहुव्रीहिः' । नरश्च मरुतश्च नृमरुत् 'समाहारद्वन्द्वः', तस्मै नृमरुते । जिनस्य भारती जिनभारती 'तत्पुरुषः' ।
८-शुभाश्च ते फणाश्च सुफणाः 'प्रादि'समासः, सुफणेषु रत्नानि येषां ते सुफणरत्नाः 'बहुव्रीहिः', सुफणरत्नाश्च ते सरीसृपाश्च सुफण० 'कर्मधारयः', सुफणरत्नसरीसृपैः राजिता सुफण० 'तत्पुरुपः', तां सुफण । रिपूणां वलं रिपुवलं 'तत्पुरुषः', रिपुवलस्य प्रहतिः रिपु० 'तत्पुरुपः', तस्यां रिपु० । न पराजिता अपराजिता 'नञ्तत्पुरुषः', तां अपरा०, अथवा अपरैः अजिता अपराजिता 'तत्पुरुषः', तां अपरा० । अग्रिमा चासौ योपिच्च अग्रिम० 'कर्मधारयः', धरणस्य अग्रिमयोपित् धरणा० 'तत्पुरुषः', तां धरणा० । जिनानां गृहाणि जिनगृहाणि 'तत्पुरुषः', तेषु जिन । नास्ति श्रमो यस्याः सा अश्रमा 'बहुप्रीति:', तया अश्रमया ॥
९-भुवनानां शेखरः भुवनशेखरः 'तत्पुरुषः', तं भुवन० । चन्देर्भावो वन्दिता, तां वन्दिताम् । इतिश्चासौ स्तुतिश्च इतिस्तुतिः 'कर्मधारयः', इतिस्तुत्यां परा इतिस्तुतिपरा 'तत्पुरुषः' । त्रिदशान् पान्तीति त्रिदश० 'उपपद'समासः, त्रिदशपानां आवली त्रिदश० 'तत्पुरुषः' । यस्यायं यदीयः, यदीयस्य जननी यदीयजननी 'तत्पुरुषः', तां यदीयः । जिनानां ईशः जिनेशः 'तत्पुरुषः', तं जिनेशम् । निहन्तुं मनो येषां ते निह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org