________________
समासविग्रहः ।
१-नम्राश्च ते इन्द्राश्च नरोन्द्राः 'कर्मधारयः', नन्द्राणां मौलयः नर्दे० 'तत्पुरुषः', नमेन्द्रमौलिभ्यो गलिता नम्रे० 'तत्पुरुषः', पारिजातानां मालाः पारिजातमालाः 'तत्पुरुषः', उत्तमाश्च ताः पारिजातमालाश्च उत्तम० 'कर्मधारयः', ननेन्द्रमौलिगलिताश्च ता उत्तमपारिजातमालाश्च न० 'कर्मधारयः', नमेन्द्रमौलिगलितोत्तमपारिजातमालाभिरर्चितौ क्रमौ यस्य स नमे० 'बहुव्रीहिः', तत्संबोधनं नमे० । अरीणां जातं अरिजातं 'तत्पुरुषः', अपगतं अरिजातं यस्य स अपारि० 'बहुव्रीहिः', तत्सं० अपा० । नाभेरपत्यं पुमान् नाभेयः, तत्सं० नाभेय ! । भुवनानां त्रिकं भुवन० 'तत्पुरुषः', भुवनत्रिकं पातीति भुवन० 'उपपद'समासः, तत्सं० भुवन० । अपवर्ग दत्ते इति अपवर्गदायी 'उपपद'समासः, तत्सं० अप० । जयतीति जिनः, तत्सं० जिन! । मदन आदौ यस्य स मदनादिकः 'बहुव्रीहिः', पापानां वर्गः पापवर्गः 'तत्पुरुषः', मदनादिकश्चासौ पापवर्गः मदना. 'कर्मधारयः', अस्तो मदनादिकपापवर्गो येन सः अस्त० 'बहुव्रीहिः', तत्सं० अस्त०॥
२-अद्रिणा समः अद्रि०, 'तत्पुरुषः', अद्रिसमो विग्रहो यस्य सः अद्रि० 'बहुब्रीहिः', तापनीयस्य राशिः तापनीयराशिः 'तत्पुरुषः', अद्रिसमविग्रहश्चासौ तापनीयराशिः अद्रि० 'कर्मधारयः', प्रदानस्य विधिः प्रदानविधिः 'तत्पुरुषः', अद्रिसमविग्रहतापनीयराशेः प्रदानविधिः अद्रि० 'तत्पुरुषः', तेन अद्रि० । दुःखमेव शत्रुः दुःख० 'कर्मधारयः'। जन्मास्ति येषां ते जन्मवन्तः, तेषां जन्म । जिनेषु वराः जिनवराः 'तत्पुरुषः ॥
३-दोषा एव दारूणि दोषदारूणि 'कर्मधारयः', दोषदारूणां दहनानि दोप० 'तत्पुरुषः', तेषु दोष० । मेघाज्जायते इति मेघजा 'उपपद'समासः । जिनस्य इदं जैनं, तत् जैनम् । अघानां जालं अघ० 'तत्पुरुषः', तत् अघ० ॥
४-सुराणां मन्त्रिणः सुरमन्त्रिणः 'तत्पुरुषः', सुरमन्त्रिभिः समाः सुर० 'तत्पुरुषः । नास्ति धीर्येषां ते अधियः 'बहुव्रीहिः' । नास्ति समानो यस्य सः असमानः 'बहुव्रीहिः', तं असमानम् । वाचो देवता वाग्देवता 'तत्पुरुषः'। कुत्सिता वादिनः कुवादिनः 'कर्मधारयः', कुवादिनां कुलं कुवादि० 'तत्पुरुषः', हतं कुवादिकुलं यया सा हत० 'बहुव्रीहिः' । भव एव ऋणं भवर्ण 'कर्मधारयः', तस्माद् भवर्णात् । विकसन्ति च तानि मुकुलानि च विकसन्मुकुलानि 'कर्मधारयः', कुन्दानां विकसन्मुकुलानि कुन्द० 'तत्पुरुषः', कुन्दविकसन्मुकुलानां आभा यस्य स कुन्द० 'कर्मधारयः', कुन्दविकसन्मुकुलाभो वर्णो यस्याः सा कुन्द० 'वहुव्रीहिः॥ १ दारुशब्दः पुंलिङ्गोऽपि वर्तते। २ मत्रिशब्द इकारान्तोऽपि । ३ मुकुलशब्दः पुंलिङ्गोऽपि ।
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org