________________
૨૨૨
समासविग्रहः। न्तुमनसः 'बहुव्रीहिः' । नास्ति उपमा यस्य तद् अनुपमं 'बहुव्रीहिः', अनुपमं वैभवं यस्य सः अनुपम० 'बहुव्रीहिः', तं अनुपम० । शं भवति अनेनेति शम्भवः, तं शम्भवम् ॥
१०-शुभश्चासौ मेरुश्च सुमेरुः 'प्रादि समासः, सुमेरुश्चासौ गिरिश्च सुमेरु० 'कर्मधारया', सुमेरुगिरेमूर्धा सुमेरु० 'तत्पुरुषः', तस्मिन् सुमेरु० । दिव्याश्च ते आनकाश्च दिव्या० 'कर्मधारयः', अनेके च ते दिव्यानकाश्च अनेक० 'कर्मधारयः', ध्वनन्तः अनेकदिव्यानका यस्मिन् स ध्वनद० 'बहुव्रीहिः', तस्मिन् ध्वनद० । अतिशयिता भव्या अतिभव्याः 'प्रादि'समासः । जगतां त्रितयं जग० 'तत्पुरुषः', जगन्नितयस्य पावनो जग० 'तत्पुरुषः'। जिनेषु वरा जिनवराः 'तत्पुरुषः', जिनवराणां अभिषेको जिन० । न कोमलं अकोमलं 'नञ्तत्पुरुषः', घनं च तद् अकोमलं च घनाकोमलं 'कर्मधारयः', तद् घना० ॥
११-अपेतं निधनं यस्य सः अपेत. 'बहुव्रीहिः', तं अपेतः । वुधश्चासौ जनश्च बुध० 'कर्मधारयः', तस्य बुध० ।शान्ता आपदो येन स शान्ता० 'वहुव्रीहिः', तं शान्ता। प्रमाणानि च नयाश्च प्रमाणनयाः 'इतरेतरद्वन्द्वः', प्रमाणनयैः सङ्कलः प्रमाण० 'तत्पुरुषः', तं प्रमाण । न सत् असत् 'नजतत्पुरुषः', असद् दृश् येषां ते असदृशः 'वहुव्रीहिः', तेषां अस० । तापं ददातीति तापदः 'उपपद'समासः, तं तापदम् । जिनेषु वरा जिनवराः 'तत्पुरुषः', जिनवराणां आगमः जिनवरागमः 'तत्पुरुपः', तं जिन० । महती सम्पद् यस्मिन् स महासम्पत् 'बहुव्रीहिः', तं महा० । सुखं आत्मा यस्य तत् सुखात्मकं 'वहुव्रीहिः', तत् सुखा० । कामश्च हासश्च कामहासौ 'इतरेतरद्वन्द्वः', विगतौ कामहासौ यस्मिन् तद् विगत० 'बहुव्रीहिः', तद् विगत० ॥
१२-शरश्च अक्षश्च धनुश्च शङ्खश्च शरा० 'इतरेतरद्वन्द्वः', शराक्षधनुशङ्खान विभतीति शरा० 'उपपद'समासः । निजं च तद् यशश्च निजयशः 'कर्मधारयः', निजयश इव वलक्षा निज० 'मध्यमपदलोपि'समासः । अखिलं च तद् जगत् च अखिल. 'कर्मधारयः', अखिलजगतो जना अखिल० 'तत्पुरुषः', न हिताः अहिताः 'नञ्तत्पुरुषः', अखिलजगज्जनानां अहिता अखिल. 'तत्पुरुपः', महान्ति च तानि बलानि च महाबलानि 'कर्मधारयः', अखिलजगज्जनाहितानां महावलानि अखिल० 'तत्पुरुषः', अखिलजगज्जनाहितमहावलानां क्षामता अखिल. 'तत्पुरुषः', कृता अखिलजगज्जनाहितमहाबलक्षामता यया सा कृताखिल० 'बहुव्रीहिः' । विनीता चासो जनता च विनीत 'कर्मधारयः', विपद एव द्विपाः विपद्विपाः ‘कर्मधारयः' विनीतजनताया विपद्विपाः विनीत. 'तत्पुरुषः', विनीतजनताविपद्विपानां समृद्धिः विनीत. 'तत्पुरुषः', विनीतजनताविपद्विपसमृद्धेः अभिद्रोहिणी विनीत. 'तत्पुरुषः' । सुरभी स्थिता सुरभि० 'तत्पुरुषः' । महीं धारयन्तीति
१ टीकायां तु विगतः कामहासो यस्मिन् इन्युलेखः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,