________________
श्रीएप्पटिसूरिचरितम्
૧૯૩ वान् । राजा दध्यो-अहो ! सुघटितत्वमर्थस्य । तं पप्रच्छ-केन केयं पूरिता समस्या? । द्यूतकृदाह-लक्षणावत्यां बप्पभद्दिसूरिणा ज्ञानभूरिणा प्रापूरि । तस्योचितं दानं चक्रे ॥
अन्यदा राजा नगर्या बहिर्निर्ययो । न्यग्रोधदुमाधः पान्धं मृतं ददर्श, शाखायां लम्बमानं करपत्रमेकं विग्रुपां व्यूह स्रवन्तं गाथार्धं च विशिष्टे ग्राणि लिखितं खटिन्याऽ. पश्यत्
"तइया मह निग्गमणे, पियाइ थोरंसुएहिं जं रुन्नं ।” तदपि समस्यापादद्वयं राज्ञा कविभ्यः कथितं, ( किन्तु) न केनापि सुष्टु प्रपूरितम् । राजा चिन्तयति स्म
"वेश्यानामिव विद्यानां, मुखं कैः कैर्न चुम्बितम् ? ।
__ हृदयग्राहिणस्तासां, द्वित्राः सन्ति न सन्ति वा ॥ १॥"-अनु० हृदयग्राही स एव मम मित्रं सूरिवरः, स एव दौरोदरिको नृपेण उपसूरि प्रैपि । सूरिणा अक्षिनिमिषमात्रेण पूरिता समस्या
"करंपत्तयविंदू इय, निवडणेण तं अज संभरियं ॥१॥" तत् पुन तकारात् श्रुत्वा राज्ञा दृढोत्कण्ठितेन सूरेराहानाय वाग्मिनः सचिवाः प्रहिताः । उपालम्भसहिता विज्ञप्तिश्च ददे । प्राप्तास्ते तत्र । दृष्टास्तैस्तत्र सूरयः, उपलक्ष्य वन्दिताः, राजविज्ञप्तिर्दत्ता । तत्र लिखितं वाचितं गुरुभिः
"न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतं
न वा शुक्तिं मुक्तामणिरुरसिजैस्यात्र रसिकः । न कोटीरारूढः स्मरति च सवित्री मणिचय
स्ततो मन्ये विश्वं स्वसुखनिरतं स्नेहविरतम् ॥ १॥"-शिखरिणी "छायाकारणि सिरि धरिय अजवि भूमि पडंति।
पत्तं इह पतत्तण तरुवर! काइं करंति ॥ २॥" सचिवा अप्यूचुः-स्वामिन् ! आमराजा निर्व्याजप्रीतिर्विज्ञपयति-समागम्यतां शीघ्रम्। अयं देशो वसन्तवतंसितोद्यानलीलां लम्भनीयः, भगवद्वाग्रसलुब्धानामस्माकं इतरकविवाग न रोचते । ( यतः) १ तदा मम निर्गमने, प्रियया स्थूराश्रुमिर्यद् रुदितम् । २ करपत्रकषिन्दूनामिति, निपतनेन तदद्य संस्मृतम् ॥ १॥ ३ 'जास्वादरसिकः' इति पाठान्तरं प्रभावकचरित्रे (पृ० १४१)। ४ 'रारूढं स्मरति च सवित्री च सुभुवं' इति प्रभावक-चरित्र-पाठः । ५ छायाकारणात् शिरसि एतानि अद्यापि भूमौ पतति ।
पत्रमिह पतनशीलं तरुवर ! किमु करोषि ? ॥ ६ 'पत्तह पहु पत्तत्तणं, वरतरु ! काइं.' इति पाठः उपदेश-रत्नाकरे (५७ पत्रा)।
૨૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org