________________
૧૯૨
चतुर्विंशतिका. "यामः स्वस्ति तवास्तु रोहणगिरे! मत्तः स्थितिं प्रच्युता
वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्ध्रप्रतिष्ठास्तदा
ते' शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः॥१॥-शार्दूल. रुचिरचरणारक्ताः सक्ताः सदैव हि सद्गती
परमकवयः काम्याः सौम्या वयं धवलच्छदाः । गुणपरिचयोद्धर्षाः सम्यग् गुणातिशयस्पृशः
क्षितिप! तव भोऽभ्यर्ण तूर्ण सुँमानसमाश्रिताः ॥२॥"-हरिणी दिनैः कतिपयैर्गोंडदेशान्तर्विहरन् लक्षणावतीनाम्न्याः पुरो बहिरारामे समवासार्षीत् । तत्र पुरे धर्मो नाम राजा । स च गुणज्ञः । तस्य सभायो वाक्पतिनामा कविराजोऽस्ति। तेन सूरीणामागमनं लोकादवगतम् । ज्ञापितश्च राजा ।राज्ञा प्रवेशमहः कारितः । पूर्मध्ये सौधोपान्ते गुरुस्तुङ्गगृहे स्थितः । राजा नित्यं वन्दते । कवयो रञ्जिताश्च । प्रभावना प्रैधते स्म यशश्च कुन्दशुभ्रम् ॥
इतश्च यदा बप्पभटिः कृतविहारः प्रातः श्रीआमपार्श्व नायातः, तदा तेन सर्वत्रावलोकितः, न लब्धः। जातो विलक्षित आमः, 'यामः स्वस्ति तव०' इत्यादिकाव्यं दृष्टम् । वर्णा उपलक्षिताः । ध्रुवं स मां मुक्त्वाऽपगत एवेति निर्णीतम् ॥
अन्यदा बहिर्गतेन राज्ञा महाभुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाद्य सौधं गतः, कविवृन्दाय समस्यामर्पितवान्
__"शस्त्र शास्त्रं कृषिविद्या, अन्यो यो येन जीवति ।" पूरिता सर्वैरपि, न तु नृपश्चमच्चकार हृदयाभिप्रायाकथनात् । तदा बप्पभहिं बाढं स्मृ. तवान् । सा हृदयसंवादिनी गीस्तत्रैव । अथ पटहमवीवदत् । तत्रेदमजूघुषत्-यो मम हृद्गता समस्यां पूरयति तस्मै सुवर्णटङ्ककलक्षं ददामि । तदा गोपगिरे तकारः कश्चिद् गौडदेशं गतः, स वप्पभटिसूरीणामने तत्समस्यापादद्वयं कथितवान् । सूरिणा पश्चिमार्ध पेठे
"सुगृहीतं च कर्तव्यं, कृष्णसर्पमुखं यथा ॥ १॥"-अनु० स हि भगवान् षविकृतित्यागी सिद्धसारस्वतो गगनगमनशत्त्या विविधतीर्थवन्दनशक्तियुक्तः तस्य कियदेतत् ? । स द्यूतकारस्तस्य पादद्वयं गोपगिरौ श्रीआमाय निवेदित१ 'माम!' इत्यपि पाठः। २ 'के' इति पाठान्तरम् । ३ अस्य पमस्येदं स्थानं न समीचीनं, काव्यमेकं लिखित्वेत्युलेखात्, अस्य प्रस्तावस्तु धर्मनृपदेशनासमय इति प्रभावकचरित्रात् (पृ. १३९) प्रतिभाति । ४ 'सुमानससंमिताः' इति पाठः प्रभावकचरित्रे (पृ० १३९)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org