________________
૧૯૪
चतुर्विंशतिका. "कथासु ये लब्धरसाः कवीनां
ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति
कस्तूरिकागन्धमृगास्तृणेषु ॥ १॥"-उपजातिः तदाकर्ण्य स्नेहं दधौ, सूरिभिः सचिवाश्चोचिरे-श्रीआमो नृप उत्तममज्ञ एवं भाषणीयः
"अस्माभिर्यदि वः कार्य, तदा धर्मस्य भूपतेः।
सभायां छन्नमागम्य, स्वयमापृच्छयतां द्रुतम् ॥ १॥"-अनु० अस्माकमिति हि प्रतिज्ञाऽस्ति धर्मेण राज्ञा सह-स्वयमामः समेत्य त्वत्समक्षं यदा ऽस्मानाकारयति किल तदा तत्र यामः, नान्यथेति-प्रतिज्ञालोपश्च नोचितः सत्यवादिनां प्रतिष्ठावताम् । ततो मन्त्रिण उपकन्यकुब्जेशमाजग्मुः । सूरिणा यदुक्तमुक्तम्, लेखश्चादर्शि । तत्र लिखितं यथा--
"विझेण विणावि गया, नरिंदभवणेसु हुँति गारविया । विंझो न होइ वंझो, गएहि वहुएहिवि गएहिं ॥ १॥-आर्या माणससरह सुहाई, जइवि न लभंति रायहंसेहिं । तहवि न तस्स तेण विणा, तीरुच्छंगा न सोहंति ॥२॥-, परिसेसियहंसउलं-पि माणसं माणसं न संदेहो । अन्नत्थवि जत्थ गया, हंसा विवया न भन्नंति ॥ ३ ॥-, हंसा जहिं गया तहिं, गया महिमण्डणा हवंति । छेहउ ताह महासर-ह जे हंसेहिं मुच्चन्ति ॥ ४ ॥-,, मलयउ सचंदणुच्चिय, नइमुहहीरंतचंदणदुमोहो । पन्भट्ठपि हु मलया-उ चंदणं जाइ महयग्धं ॥५॥-,,
१ विन्ध्येन विनाऽपि गजा नरेन्द्रभुवनेषु भवन्ति गौरविताः । विन्ध्यो न भवति वन्ध्यो गतेषु बहुकेष्वपि गजेपु ॥१॥ मानससरोवरस्य सुखानि यद्यपि न लभ्यन्ते राजहंसैः। तथापि न तस्य तैर्विना तीरोत्सङ्गा न शोभन्ते ॥२॥ परिशेषितहंसकुलमपि मानसं मानसं न सन्देहः । अन्यत्रापि यत्र (कुत्र) गता हंसा विवयसो न भण्यन्ते ॥३॥ हंसा यन्त्र गतास्तत्र गता महीमण्डना भवन्ति । छेदस्तेषां महासरसां यानि हंसैर्मुच्यन्ते ॥ ४॥ मलयः सचन्दन एव नदीमुखहियमाणचन्दनदुमाघः । प्रभामपि च मलयात् चन्दनं याति महाय॑म् ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org