________________
in
श्रीवप्पट्टिसूरिकृता. १९ श्रीमल्लिजिनस्तुतयः
अथ श्रीमल्लिनाथस्य स्तुतिः
करोतु नो 'मल्लि'जिनः, प्रियं गुरु चिरं हतिम् । द्विषां च तन्यात् सिद्धेश्च, प्रियङ्गुरुचिरंहतिम् ॥१॥
-अनुष्टुप् जिनजन्ममहिमा--
जैनं जन्म श्रियं वर्ग-समग्रामं दधातु नः।
क्षणदं मेरुशिरसः, समग्रामन्दधातुनः ॥२॥-अनुष्टुप् जिनवाण्याः स्वीकारः
जिनस्य भारती तमो-वनागसङ्घनाशनीम् ।
उपेत हेतुमुन्नता-वनागसं घनाशनीम् ॥ ३ ॥-प्रमाणिका श्रुतदेवतायाः स्तुतिः
वाग्देवी वरदीभूत-पुस्तिकाऽऽपद्मलक्षितौ । आपोऽव्याद् विभ्रती हस्तौ, पुस्तिकापद्मलक्षितौ।४।१९-अनुष्टुप्
२० श्रीमुनिसुव्रतजिनस्तुतयः
श्रीमुनिसुव्रतनाथस्य स्तुतिः
जयसि 'सुव्रत !' भव्यशिखण्डिना___मरहितापघनाञ्जननीलताम् । दधदलं फलयंश्च समं भुवाऽमरहितापघनां जननीलताम् ॥ १॥
__-दुतविलम्बितम् समग्रजिनवराणां स्तुतिः
प्रतिजिनं क्रमवारिरुहाणि नः
सुखचितानि हितानिः नवानि सम्।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org