________________
१६
चतुर्विंशतिकाः जिनेन्द्रवाणीमवदातनिष्ठां
समाश्रयध्वं स्ववदातनिष्ठाम् ॥ ३ ॥-उप० महाकालीदेव्याः स्तुतिः
घण्टेन्द्रशस्त्रं सफलाक्षमालं
नृस्था वहन्ती विमला क्षमाऽलम् । वरेषु वः पातु तमालकान्ता
देवी 'महाकाल्य'समालकान्ता ॥ ४ ॥ १७ ॥-उप०
१८ श्रीअरजिनस्तुतयः
अथ श्रीअरनाथस्य स्तुतिः
स्तुत तं येन निर्वृत्या-मरञ्जि नवरञ्जनाः । विहाय लक्ष्मीर्जगता-'मरं' जिनवरं जनाः! ॥१॥
-अनुष्टुप जिनकदम्बकस्य स्तुतिः--
त्रिलोकीं फलयन् पातु, सद्मनःपादपां स वः।
जिनौघो यस्य वन्द्याः श्री-सद्मनः पादपांसवः ॥२॥-अनुष्टुप् जिनवाक्रतुतिः
जैन्यव्याद् वाक् सतां दत्त-माननन्दा न वादिभिः।
जय्या स्तुता च नीतीना-माननं दानवादिभिः॥३॥-अनुष्टुप् वैरोठ्यादेव्याः स्तुतिः
श्यामा नागास्त्रपत्रा वो, 'वैरोट्या'ऽरं भयेऽवतु। शान्तोऽरातिर्ययाऽत्युग्र-वैरोऽट्यारम्भयेव तु॥४॥१८॥-अनुष्टुप्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org