________________
श्रीबप्पभट्टिसूरिकता. जैनवचसः प्रधानता
यच्छृण्वतोऽत्र जगतोऽपि समाऽधिकारं
बुद्धिर्भवत्यनुपतापि समाधिकारम् । तत् पावकं जयति जैनवचो रसादि
भोगातिलोलकरणानवचोरसादि ॥ ३ ॥-वसन्त० कालीदेव्याः प्रार्थना
धत्ते गदाक्षमिह दृक्पतिताञ्जनस्य __ कान्तिं च या गतवती पतितां जनस्य । आमोदलोलमुखरोपरिपातुकाली पद्मो यदासनमसौ परिपातु 'काली' ॥४॥१६॥-वसन्त०
१७ श्रीकुन्थुजिनस्तुतयः
अथ श्रीकुन्थुनाथस्य स्तुतिः
हन्तुं महामोहतमोऽक्षमाणा
मोजो नृणां योऽकृत मोक्षमाणा। यं चातिकृच्छ्राजनताऽऽप देवः स्थाप्यात् स 'कुन्थुः' शिवतापदे वः ॥ १ ॥
-इन्द्रवत्रा जिनदर्शनस्य प्रभावः
संसाररूपः सुबृहन्नुदन्वा
नलचि पीडानिवहं नुदन् वा । यदर्शनात् प्रापि जनेन नाकः
स्तूयाजिनांस्तान् भुवने न ना कः? ॥ २ ॥-उपजातिः जिनवाणीमाहात्म्यम्
वज्राशनी दुष्कृतपर्वतानां निर्वाणदानात् कृतपर्वतानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org