________________
चतुर्विशतिका. ददतु पदमुरुश्रीतेजि नानाशयं तु
प्रतिभयमिह नोऽघं ते जिना नाशयन्तु ॥ २॥-मालिनी जिनवचनप्रशंसा
परसमयरिपूणां संसदो दारहेतौ
विहितविततमोहासं सदोदारहेतौ। जिनवचसि रता स्तापद्धतौ सत्यनीतौ
दिविजमनुजलक्ष्मीपद्धती सत्यनीतौ ॥३॥-मालिनी महामानसीदेव्याः स्तुतिः
असिफलकमणिश्रीकुण्डिकाहस्तिकाऽलं _प्रबलरिपुवनानां कुण्डिका हस्तिकालम् । मृगपतिमधिरूढा सा 'महामानसी' मा
मवतु सुतडिदाभाऽसामहा मानसीमा॥४॥१५॥-मालिनी
१६ श्रीशान्तिजिनस्तुतयः
अथ श्रीशान्तिनाथाय नमः
भव्यैः कथञ्चिदतिदुःखगभीरवापे___ सत्तारको जगति सम्यगभीरवापे । यस्तं नमामि विहितावमहानिशान्तं 'शान्ति' जिनं परमशान्तिमहानिशान्तम् ॥१॥
-वसन्ततिलका जिनानामुत्कर्षः
यद्वाहवो वरपुरीपरमार्गलाभाः
प्राप्ता यतश्च जगता परमार्गलाभाः। नत्वा च यांस्तुलितवैबुधराजि नाऽऽस्ते सिद्धौ जयन्त्यघदवाम्बुधरा जिनास्ते ॥२॥-बसन्त०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org