________________
चतुर्विशतिका. दधति रान्तु पदानि नखप्रभा
सुखचितानि हि तानि नवानिशम् ॥ २॥-द्रुत० जिनमतप्रशंसा
जयति तत् समुदायमयं दृशा
मतिकवी रमते परमे धने । महति यत्र विशालबलप्रभा
मतिकवीरमते परमेधने ॥३॥-द्वत० श्रुतदेवतायाः स्तुतिः
श्रुतनिधीशिनि ! बुद्धिवनावली
दवमनुत्तमसारचिता पदम् । भवभियां मम देवि ! हरादरा
दवमनुत् तमसा रचितापदम् ॥ ४ ॥ २० ॥-द्रुत०
___२१ श्रीनमिजिनस्तुतयः
अथ श्रीनमिनाथस्य स्तुतिः
विपदां शमनं शरणं ___ यामि 'नर्मि' दूयमानमनुजनतम् । सुखकुमुदौघविकाशे
यामिनमिन्दूयमानमनुजनतम् ॥ १॥
-गीतिः
जिनेश्वराणां प्रार्थना
यैर्भव्यजनं त्रातुं
येते भवतोऽजिनास्थिरहिता ये। ईशा निदधतु सुस्था
ये ते भवतो जिना स्थिरहिताये ॥ २ ॥ -गीतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org