SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ॥ ऐं नमः॥ श्रीमत्पण्डितमेरुविजयगणिविरचिताः स्वोपज्ञविवरणयुताः श्रीचतुर्विंशतिजिनानन्दस्तुतयः १ श्रीऋषभजिनस्तुतयः अथ श्रीनामिनन्दनस्य नुति: आनन्दमन्दिरमुपैमि तमृद्धिविश्व नाभेय! देवमहितं सकलाभवन्तम् । लब्ध्वा जयन्ति यतयो भवयोधमादौ 'नाभेय'देवमहितं सकला भवन्तम् ॥ १॥ -वसन्ततिलका (८,६) विवरणम् नस्वा महिमनिधानं, स्वगुरुं विकृणोति मेरुविजयकविः । स्वोपज्ञचतुर्विंशति-नुतीर्जिनानां यमकविषयाः ॥-आर्या त-जिनं अहं उपैमि-श्रये । तं किंविशिष्टं ? आनन्दस्य-हर्षस्य गृहम् । पुनः किं. १ देवैर्महित-पूजितम् । पुनः (किंवि०) केन-सुखेन सहितो लाभः-प्राप्तिस्तद्वन्तम् । ऋद्धिःसम्पत् तद्रूपविश्व-जगति ब्रह्मा तत्संबोधनम् । तं कं ? यं भवन्तं लब्ध्या-प्राप्य यतयाँ भवयोधं-संसारभटं जयन्ति । क्व ? आदौ-युगादौ । यं किंविशिष्टं ? नाभेयदेवं-वृषभनामानम् । भवयोधं किंविशिष्टं ? अहितं-दुःखदम् । यतयः किंविशिष्टाः १ सकला:-सर्वे ॥१॥ अन्वयः (हे) ऋद्धि-विश्व-माभेय ! (य) भवन्तं नाभेय-देवं आदौ लब्ध्वा सकलाः यतथः अहितं भव-योधं जयन्ति, तं आनन्द-मन्दिरं, देव-महितं स-क-लाभ-वन्तं उपैमि । १ आर्या-लक्षणम् “यस्याः पादे प्रथमे, द्वादश मात्रा तथा तृतीयेऽपि । अष्टादश द्वितीये, चतुर्थके पश्चदश साऽऽर्या ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004890
Book TitleChaturvinshati Jinanand Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgamoday Samiti
Publication Year1929
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy