________________
[२४ श्रीवीर
श्रीचतुर्विशतिजिनानन्दस्तुतयः २४ श्रीवीरजिनस्तुतयः।
SASAKISSAKASKSIKSKSIKHIS
अथ श्रीवीरनाथस्य स्तुतिः
'सिद्धार्थ वंशभवनेऽस्तुत यं सुराली
हृद्या तमोहमकर ! ध्वजमानतारे!। त्वां नौमि 'वीर !' विनयेन सुमेरुधीरं
हृद्यातमोहमकरध्वजमान ! तारे ॥१॥ जिनश्रेण्या नुति:
यत्पादपद्ममभवत् पततां भवाब्धा
वालम्बनं शमधरी कृतकामचक्रा । त्वं जैनराजि ! सृज म शिवद्रुमाणां
बालं वनं शमधरीकृतकामचका ॥२॥ जिनागमस्य स्तुतिः
कादम्बिनीव शिखिनामतनोदपास्ता
रामारमा मतिमतां तनुतामरीणाम् । जैनी नृणामियममर्त्यमणीव वाणी
रामा रमामतिमतां तनुतामरीणाम् ॥ ३ ॥ ॐ अम्बिकादेव्या नुति:
सम्यग्दृशां सुखकरी मदमचनील
कण्ठीरवाऽसि ततनोदितसाक्षमाला । देव्यम्बिके' ! शिवमियं दिश पण्डितानां
कण्ठीरवासिततनो! ऽदितसा क्षमाला ॥ ४ ॥ २४ ॥
NISHISHISHASKASHASKKISSAKASKS
FRICKASISAMACHAKOMASHISHASE
htsASHIKASHMIRICA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org