________________
भूमि
४७ (४) “कल्याणानि समुल्लसन्ति जगतां दारिद्र्यविद्रावण
द्राधीयःपदवीप्रबहघटनाकल्याणकल्पद्रुमात् । कल्याणप्रगुणीभवत्प्रवचनश्रीसिद्धसारस्वत
श्रीमत्पार्श्वजिनेश्वरस्मरणतः कल्याणमाहात्म्यतः॥"१-४ ॥ (५) “ सकलजिनराजकोटीरहीराकरं, पार्श्वपरमेश्वरं समयकमलाकरम् ॥
स्मरत कंसारिपुररत्नतिलकोत्तरं, विजयलक्ष्मीवरं नीलरुचिसुन्दरम् ॥"१-४॥ . (६) “कमलदललोचनं विमलकुलरोचनं, भजत भयभञ्जनं भुवनजनरञ्जनम् ।
समयमभिवन्दितं त्रिजगतीजीवनं, वीरमर्हद्गुणं शासनस्वामिनम् ॥” १-४॥ (७) “वीर ! देवव्रजाराध्ययक्ष ! सिद्धान्ततत्त्ववित् ! ।
श्रीमद्विजयसेनाख्य ! कुरु भद्रं महोदयम् ॥"१-४॥ (८)"श्रीवर्धमान ! प्रभुताऽभिराम ! श्रीतीर्थराजः शिवशूचिवाचः।
सर्वानुभूतिप्रभवः प्रसपत्-सौख्यं प्रकर्ष ददतां जनानाम् ॥"१-४॥ (९) "श्रीवर्धमान ! जय ! सर्वजिनेशसिद्ध-सिद्धान्तगोमुखहिमद्युतिकान्तिकान्त-1
सौवर्णवर्णवरदहसमुल्लसच्छ्री-लावण्यतोषितसुधीजनलोचनाली ॥"१-४॥ (१०) “ जिनशासनभासन ! श्रीगौतमगणधर ! गुणनिधान !।।
जिनसमुदयसमयसुरप्रधान ! । जय दीपालीध्येयाभिधान ! ॥"१-८॥ (११) " जय जय करमङ्गलदीपक ! जिनवरवीर ! वीर ! श्रीगौतमगणधर ! ।
भवदवनीरदनीर! प्रवचन जनसमुदयसुन्दर!सुरकोटीरदीपालीकमलामालतिलकवरहीर!"१-८ (१२) “सीमन्धरभूधरबन्धुरसिन्धुरचारी सर्वज्ञसुधाकरप्रकरप्रभुताधारी ।
सभयामयवारणनिष्कारणमुपकारी जय शासन! सुरवरकमलविजय ! जयकारी ॥"१-४॥ (१३) “जगतीजनजीव ! सिद्धचक्र ! कमनीयप्रवचन ! जिनपुङ्गवसिद्धचक्रगणनीय !।
जय सूरिपुरन्दरवाचकमुनिमहनीय ! दर्शनत्रिक ! तपसा कमलविजयभजनीय !॥"१-४॥ વિશેષમાં જેમ એકજ પદ્ય ચાર સ્તુતિઓની ગરજ સારે છે તેમ બબ્બે અક્ષરવાળા “સ્ત્રી છંદમાં રચાયેલી સ્તુતિઓ નીચે મુજબ મળી આવે છે. (१४) "दद्यादर्हन शान्तिः शान्ति १ सार्वस्तोमं स्तौम्यस्ताघम् । २
सिद्धान्तः स्ताज्जैनो मुक्त्यै ३ निर्वाणी वो विघ्नं हायात् ॥४॥" (१५) “ नेमि नाथं वन्दे बाढं १ सर्वे सार्वाः सिद्धिं दधुः२।
जैनी वाणी सिद्धयै भूयात् ३ वाणी विद्यां दद्याद् हृद्याम् ॥४॥" (१६) “ नेमिनाथं वन्दे बाढं १ सर्वे सार्वाः शं मे दयात् २।
सार्व वाक्यं कुर्यात् सिद्धिं ३ कल्याणं मे दद्यादम्बा ॥४॥" (१७) " पार्श्वः प्रभुः जीयान्नित्यं १ सार्वः सङ्गः दद्याच्छं मे ।२
अर्हद्वाक्यं सिद्धिं दद्यात् ३ भद्रं नित्यं देयात् पद्मा ॥४॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org