________________
क-परिशिष्टम् । श्रीसोमतिलकसूरीश्वरकृता ॥ साधारणजिनस्तुतिः ॥
( सावचूरिः)
तावत् मूलनायकस्तुतिः
श्रीतीर्थराजः पदपद्मसेवा-हेवाकिदेवासुरकिन्नरेशः। गम्भीरगीस्तारतरा वरेण्य-प्रभावदाता ददतां शिवं वः ॥ १॥
-उपजातिः
अवचूरिः 'श्रीतीर्थराजः' श्रिया-चतुस्त्रिंशदतिशयरूपया उपलक्षितः, तीर्थस्य-चतुर्वर्णश्रीश्रमणसङ्गादिरूपस्य राजा-स्वामी, श्रिया-ज्ञानादिरत्नत्रयरूपया उपलक्षितस्य वा तीर्थस्य राजा (श्री)तीर्थराजः। अत्र 'राजनसखेः' (सिद्धहेम० अ०७, पा०३, सू० १०६) इति असमासान्तः, अन्त्यस्वरादिलोपे च सिद्धिः। किम्भूतः स इत्याह-पदपद्मानि अर्थात् भगवत एव पदकमलानि तेषां या सेवा-परिचर्या तस्याः हेवाका-तच्छीलत्वात् स्वभावो येषां ले पदपद्मसेवाहेवाकिनः, देवासुरकिन्नरेशः-ऊर्ध्वाधस्तिर्यग्रलोकनिवासिजनाधिपाः, उपलक्षणत्वात् ज्योतिष्कशेषभवनपतिव्यन्तरखचरप्रभवोऽपि गृह्यन्ते, ततः पदपद्मसेवाहेवाकिनो देवासुरकिन्नरेशा यस्य स तथा । पुनः किम्भूतः ! गाम्भीर्यादिगुणयुतत्वात् अनुत्ताना गीर्यस्य स तथा । तारं-( उत्कृष्टं) अपरिमितत्वात् तरो-बलं वीर्य वा यस्य स तथा । वरेण्याः-प्रशस्यतमाः ये प्रभावा:-माहात्म्याडतिशयास्तान, यद्वा वरेण्यःप्रकृष्टो यो भाव-भावनात्मकश्चित्ताभिप्रायो विभूतिरूपो वा तं ददातीत्येवंशीलस्तथा। अत एव उक्तमनेकार्थे (श्लो०५३८-५३९)
"भावोऽभिप्रायवस्तुनोः। स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु" इति ॥ अत्र शीलार्थे तृन्, ईविशेषणविशिष्टः सन् तीर्थराजः किं कुरुतामित्याह-शिव-सुखं कल्याणं मोक्षं च तन्निबन्धनसन्मार्गोपदेशनाद् वः-युष्माकं (ददताम्)। इह कथं ददतां इत्येकवचनम् ? उच्यते'ददि दाने' (सिद्ध० धातुपाठे) इति धातोः आत्मनेपदत्वात् पञ्चमी शिवि च सिद्धम्, तृतीयस्तुतावप्येवमेवेति ॥१॥ एषा मूलनायकापेक्षयोक्ता॥
अन्वयः पद-पद्म-सेवा-हेवाकिन् देव-असुर-किश्नर-ईशः गम्भीर-गीः तार-तराः वरेण्य-प्रभावदाता श्री-तीर्थ-राजः वः शिवं ददताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org